यद्येवम् अलुक् न वक्तव्यः—'आत्मना चतुर्थ इति वाक्यं भविष्यति, आत्मचतुर्थ इति च वृत्तिः।
न चात्मचतुर्थ इत्युक्ते बहुव्रीहौ तत्पुरुषे वाऽर्थभेदो विद्यते, उभयथाऽपि चतुःसंख्योपलक्षित— समुदायः प्रतीयते।
नैवम्। एवं सति, 'राज्ञः सखा' राजसख इत्यप्युक्ते संबन्धादेतद् गन्तव्यम्—नूनं राजा अस्य सखा; राजसखेति चोक्ते गन्तव्यमेतत् 'राज्ञः सखाऽयम्' इति। ततश्च बहुव्रीहितत्पुरुषयोरन्यतरो न प्राप्नोति।
मैवम्। अस्त्यत्र विशेषः— तत्पुरुषे समासान्तो भवति 'यथा स्वस्ति १सोमसखाय ते' {तैसं. १.२.४.२, मभा. २.१.२४(५)}, बहुव्रीहौ न भवति। यथा— 'वृत्रं जहि मरुत्सखे!'२ इति।
इहापि तर्ह्यस्ति विशेषः— तत्पुरुषे ३आत्मनाचतुर्थसाध्यमेतत्, बहुव्रीहौ 'आत्मचतुर्थ— साध्यमेतदि'ति। अपि च १. स्वयं भोज एव वेदमन्त्रानन्यथयते। तथाहि अत्र संहिता—'स्वस्ति सोमसखा पुनरेहीति पाठः, स एव च महाभाष्ये—रा। २. कुत्रत्यमिदं वचनमिति प्रश्ने राघवोऽब्रूत आकरो नैव ज्ञायत इति। वयं तु मन्यामहे तदिदं भोजवचनमेवेति। ३. अलुगापत्तिरियम्। अन्यथाजातीयः प्रत्यक्षेणार्थसंप्रत्ययः,अन्यथाजातीयः खल्वनुमानेन भवति। तत्रायं राज्ञः सखा, आत्मना चतुर्थ इति प्रत्यक्षेण, सम्बन्धस्य उभयनिष्ठत्वान्नूनं राजाऽप्यस्य सखा, आत्माऽप्यस्य चतुर्थ इत्यनुमानेन। एवं बहुव्रीहावपि द्रष्टव्यम्।
अथ यथात्मचतुर्थ इति समुदायस्यैकार्थत्वादेकवचनम् एवम् अर्धतृतीया इत्यत्रापि कस्मान्न भवति ?
अन्येऽप्येकार्थाः समुदाया भवन्ति। तद्यथा— शतम्, यूथम्, वनमिति।
विषम उपन्यासः। आत्मचतुर्थ इत्यत्र हि बहुव्रीहिणोपसर्जनीकृतप्रतीयमाना— परसंख्येयसमानाधिकरणात्मचतुर्थशब्दशक्त्यभिधेयो जनार्दन एकोऽस्येत्यन्यपदार्थः प्रतिपाद्यते; इह तु अर्धतृतीयशब्दशक्त्यभिधेयास्त्रयः संख्येयाः।
तत्र यद्येकवचनं वाक्ये वृत्तौ वा भवति केषां तदर्धं तृतीयं भवति ?
नन्वेवमपि अर्धतृतीया द्रोणा इति द्रोणशब्दः समुदाये वृत्तो नार्धे वर्त्तते।