नन्वेवम् अर्धतृतीया आनीयन्तामित्यर्धानयनं न प्राप्नोति, बहुवचनं च नोपपद्यते।
नैष दोषः। भवति हि बहुव्रीहौ तद्गुणसंविज्ञानमपि/?/। तद्यथा— 'शुक्लवाससमानय,' लोहितोष्णीषा ऋत्विजः प्रचरन्तीति तद्गुण आनीयते, तद्गुणाश्च प्रचरन्ति। बहुवचनं तु द्वित्रादिवदुपपद्यते इति। तत्र यथा आनीयन्तामिति त्रयाणामिव द्वयोरप्यानयनपक्षे बहुवचनमुपपन्नं भवति, तथेहापि भविष्यति।
विषम उपन्यासः। तत्र हि द्वौ वेत्युक्तो त्रयो वेति गम्यते, त्रयो वेत्युक्ते द्वौ वेति गम्यते; सैषा समानाधिकरणपदार्थपञ्चकाधिष्ठाना वाक्। तत्र युक्तं बहुवचनम्, इह त्वर्धं तृतीयमनयोरित्युक्तं, यद्यपि गम्यते त्रयाणां पूरणस्तृतीयो भवतीति तथापि समासेऽन्यपदार्थपरतया द्वयोरेवाभिधानाद् बहुवचनस्य नोत्पत्तिः। तद्गुणसंविज्ञानमपि समासाभिधानपक्ष एवोपपद्यते, समासश्च सामर्थ्ये सति भवति, सामर्थ्यं च वृत्तिवाक्ययोरैकार्थ्यम्, तच्च तदोपजायते, यदि वृत्ताविव वाक्येऽपि समासार्थस्य बहुवचनं भवति ॥
अथ 'किंसब्रह्मचारी'—ति कोऽयं समासः? के सब्रह्मचारिणोऽस्येति।
कः सब्रह्मचारीति कर्मधारयः कस्मान्न भवति?
भवति, यदि क्षेपो गम्यते, यथा किंराजा यो न रक्षति, किंगौः यो न वहति।
केषां सब्रह्मचारीति तत्पुरुषस्तर्हि भवतु कठ इति प्रतिवचनं नोपपद्यते। न ह्यन्यत् पृष्टेनान्यदाख्येयम्, अतः कठानामिति प्रतिवक्तव्यं भवति।
बहुव्रीहावप्येतत् तुल्यमेव, तत्राऽपि के सब्रह्मचारिणोऽस्येति बहुवचनप्रश्ने कठ इति नैकवचनेनोत्तरं भवति।
बहुव्रीहावप्येतत् तुल्यमेव, तत्राऽपि के सब्रह्मचारिणोऽस्येति बहुवचनप्रश्ने कठ इति नैकवचनेनोत्तरं भवति।