भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 801 to 810 of 1013 verses
नैष दोषः। 'अग्‍नौ करवाणी'— (मभा. २.२.२४)—ति न्यायेन भविष्यति। तद्‍यथा कश्‍चिदाह— 'अग्‍नो करवाणीति, तत्र कुर्विति तत्कर्त्तर्यनुज्ञाते कर्माप्यनुज्ञातं भवति, अपर आह 'अग्‍नौ करिष्ये, तत्र क्रियतामिति कर्मण्यनुज्ञाते कर्त्ताप्यनुज्ञातो भवति। एवं यथैव के सब्रह्मचारिणोऽस्येत्युक्‍ते कठा इति प्रत्युक्‍ते सम्बन्धादेतद् गम्यते अयमपि कठः, तथा कठ इत्यप्युक्ते संबन्धादेतदवगन्तव्यं तेऽपि कठाः। समासेन तु प्रतिनिर्देष्टुमशक्यम्, उपसर्जनं हि तत्र ते भवन्तीति ॥

(८. समासः)

ऐकपद्यं समासः।

स त्रिधा— १. उपश्‍लिष्टक्रियः, २. गमितक्रियः, ३. अक्रियश्‍च। तेषु—

(१) उपश्‍लिष्टक्रियो द्विधा १. उभयस्थक्रियः २. अन्यतरस्थक्रियश्‍च। तयोः

उभयस्थक्रियो यथा— कृताकृतम्, क्लिष्टाक्लिशितः, स्‍नातानुलिप्तः, भ्रष्टलुञ्चितः (काशिका २.२.३१) कृष्टाऽतिकृष्टम्, क्रयाक्रयिका इति।

अन्यतरस्थक्रियो यथा— भोज्योष्णम्, प्राप्तजीविकः, आहिताग्‍निः, कष्टश्रितः, काकपेया, इध्मप्रव्रश्‍चन इति।

(२) गमितक्रियो द्विधा १. उभयकारकः, अन्यतरकारकश्‍च। तयोः—

उभयकारको यथा— दध्‍नोपश्‍लिष्ट ओदनो दध्योदनः, गुडेन मिश्रा धाना गुडधानाः, शङ्कुलया कृतः खण्डः शङ्कुलाखण्डः, अक्षेषु प्रसक्‍तः शौण्डः अक्षशौण्डः, कण्ठे स्थितः कालो यस्य कण्ठेकालः, पञ्चसु कपालेषु संस्कृतः पञ्चकपाल इति।

अन्यतरकारको यथा— 'प्रगत आचार्यः प्राचार्यः', 'अतिक्रान्तो मालामतिमालः, अवक्रुष्टः कोकिलया अवकोकिलः, परिग्लानोऽध्ययनात् पर्यध्ययनः, निष्क्रान्तः कौशाम्ब्याः निष्कौशाम्बिः, प्रपतितानि पलाशान्यस्य प्रपलाश इति।

Showing 801 to 810 of 1013 verses