केशाकेशि, बाहूवाहवि, दण्डादण्डि, मुष्टीमुष्टि, इत्यपि गमितक्रियमसत्त्वरूपं केचित्। यथा— (माघ. १८.१२)
रोषावेशादाभिमुख्येन कौचिन्नामग्राहं रंहसैवोपजातौ।
भित्त्वा हेती मल्लवन्मुष्टिघातैर्घ्नन्तौ बाहूबाहवि व्यासजेताम् ॥ ५७ ॥
केचित् पुनरस्य वस्तुरूपत्वं ब्रुवते। यथा—
दण्डादण्डि न कुर्वन्ति न कचाकचि कोकिलाः।
तथापि जितमेवाभिर्वाग्भिरेव जगत्त्रयम् ॥ ५८ ॥
कुतः पुनरेतद् यदेकदा दण्डादण्ड्यादयः सत्त्वरूपाः, अन्यदा त्वसत्त्वरूपा इति ?
'तत्र तेनेदमिति सरूपे' (२.२.२७) सूत्रस्य व्याख्यानभेदात्। तत्रास्य सूत्रस्यायमर्थः—द्वे समानाकृती शब्दरूपे अन्यपदार्थे समस्येते तत्रेति तेनेति च।