भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 821 to 830 of 1013 verses
(२.१.१०)

केशाकेशि, बाहूवाहवि, दण्डादण्डि, मुष्टीमुष्टि, इत्यपि गमितक्रियमसत्त्वरूपं केचित्। यथा— (माघ. १८.१२)

रोषावेशादाभिमुख्येन कौचिन्नामग्राहं रंहसैवोपजातौ।

भित्त्वा हेती मल्लवन्मुष्टिघातैर्घ्‍नन्तौ बाहूबाहवि व्यासजेताम् ॥ ५७ ॥

केचित् पुनरस्य वस्तुरूपत्वं ब्रुवते। यथा—

दण्डादण्डि न कुर्वन्ति न कचाकचि कोकिलाः।

तथापि जितमेवाभिर्वाग्भिरेव जगत्त्रयम् ॥ ५८ ॥

इति।

कुतः पुनरेतद् यदेकदा दण्डादण्ड्यादयः सत्त्वरूपाः, अन्यदा त्वसत्त्वरूपा इति ?

'तत्र तेनेदमिति सरूपे' (२.२.२७) सूत्रस्य व्याख्यानभेदात्। तत्रास्य सूत्रस्यायमर्थः—द्वे समानाकृती शब्दरूपे अन्यपदार्थे समस्येते तत्रेति तेनेति च।

Showing 821 to 830 of 1013 verses