भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 821 to 830 of 1182 verses
६. क्रियावयवरूपा यथा—

मूलकोपदंशं भुङ्क्ते, दण्डोपघातं गाः कालयति, पार्श्‍वोपपीडं शेते, व्रजोपरोधं गाः सादयति, पाण्युपकर्षमुत्थापयति, केशग्राहं युध्यन्ते, भ्रूविक्षेपं जल्पति, गेहानुप्रवेशमास्ते, नामग्राहमाकारयति, चोरङ्कारमाक्रोशति, स्वादुङ्कारं भुङ्क्ते, स्वाद्वकृत्य भुङ्क्ते' इति।

क्रियाकर्मावयवरूपाः खल्वपि संभवन्ति, यथा— स्वपोषं पुष्यति, आत्मपोषं पुष्णाति, गोपोषं पुष्यति, रैपोषं पुष्णाति, निमूलकाषं कषति, समूलकाषं कषति, समूलघातं हन्ति, पाणिघातं वेदिमाहन्ति, शुष्कपेषं पिनष्टि, चूर्णपेषं पिनष्टि, रूक्षपेशं पिनष्टि, उदपेषं पिनष्टि, अकृतकारं करोति, जीवग्राहं गृह्‍णाति, हस्तग्राहं गृह्‍णाति, हस्तवर्त्तं वर्त्तयति, चूडकनाशं नष्टः, सुवर्णनिधायं निहितः, ओदनपाकं पक्वः, क्रौञ्चबन्धं बद्‌धः, जीवनाशं नश्यति, पुरुषवाहं वहति, ऊर्ध्वशोषं शुष्कः, ऊध र्वपूरं पूर्ण' इति।

शेषाश्छन्दसि चतुर्विंशतिर्भवन्ति। तद् यथा—

'एश्, केन्, तवै, के, से, सेन्, असे, असेन्, क्स, कसेन्, अध्यै, अघ्यैन्, कध्यै, कध्यैन्, शध्यै, शध्यैन्, तवेङ्, तवेन्, कै, इष्यै, णमुल्, तोसुन्, कसुन्' इति।

(१—२) एश‌्केनौ तेषु कृत्यार्थे एशकेनौ। एश् अवचक्षे, केन् नावगाहे।

(३) तवै कृत्यार्थे तुमर्थे च।

कृत्यार्थे परिधातवै, परिस्तरितवै।

तुमर्थे सोममिन्द्रपातवै, अन्वेतवै।

(४—२०) (के — इष्यै) कया(के आ)दयः सप्तदश तुमर्थे। तेषु—

Showing 821 to 830 of 1182 verses