प्रकृत्यर्थानि यथा— 'मन्ये शङ्के अये आम' इति।
प्रत्ययार्थानि यथा— एहि अपेहि पश्य पश्यत' इति।
उभयार्थानि यथा— 'अस्ति, असि, अस्मि, ब्रूहि' इति।
अनुभयार्थानि यथा— याति, नयाति, वर्त्तते नवर्त्तत इति।
प्रकृत्यन्तरार्थानि यथा— अस्तु, भवतु, पूर्यते, आस इति।
प्रत्ययान्तरार्थानि यथा— आह, स्यात्, ब्रूयात्, भूयात् इति।
स्वरादिनिपातमव्ययम् (१.१.३७) इत्यव्ययप्रकरणे
१. कृन्मेजन्तः (१.१.३९) क्त्वातोसुन्कसुनः (१.१.४०)
२. तद्धितश्चासर्वविभक्तिः (१.१.३८)