(३) अक्रियो द्विधा १. वस्तुरूपः २. अवस्तुरूपश्च। तयोः
वस्तुरूपो यथा— उपकुम्भम्, त्रिभुवनम्, नीलोत्पलम्, राजपुरुषः, चित्रगुः, धवखदिरौ इति।
अवस्तुरूपो यथा— अधिस्त्रि, प्रत्युरसम्, यथाशक्ति, यावदमत्रम्, पारेगङ्गम्, मध्येसमुद्रम् इति।
अयं तूपश्लिष्टक्रियो गमितक्रियश्च भवति। यथा—
आयतीगवमागच्छत्यातिष्ठद्गूपतिष्ठते।
निकुच्यकर्णि शार्दूलोऽपोह्यपुच्छि प्रधावति ॥ ५५ ॥
१शलाकापर्यभिद्यूनं चतुष्पर्यक्षपर्यपि।
विपर्यस्ते विधौ यश्च नलादेरपि जायते ॥ ५६ ॥