भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 891 to 900 of 1013 verses
नन्वेवमेते चतुर्थीसमासाः कस्मान्न भवन्ति?

'चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः' (२.१.३६) इति तदर्थादिष्वेव तत्समाम्नानात्।

तदर्थ्य एव हि तर्हि समासा भवन्तु, तद्धि यस्मै प्रदीयते तदर्थमेव तद् भवति।

नैवम्, न तादर्थ्यमात्रे चतुर्थी समस्यते, यथाऽवहननायोलूखलम्, अपि तु प्रकृति— विकारतादर्थ्ये, यथा यूपरूपाया विकृतेः प्रकृतिभूतं दारू यूपदार्विति (२.१.३६ काशिका)।

ननू च नाऽत्र प्रकृतिविकारग्रहणमस्ति, दृश्यते चाप्रकृतिविकारभावेऽपि अश्‍वघासः, अश्‍वसुरम्, 'अथातो धर्मजिज्ञासा' (पूर्वमीमांसादर्शनं १.१.१), इति चतुर्थीसमासः। तत्कथमुच्यते प्रकृतिविकारतादर्थ्य एव चतुर्थ्याः सामार्थ्यमिति?

अचार्यप्रवृत्तिर्ज्ञापयति यदयं बलिरक्षितग्रहणं करोति। यथाजातीयकानां च समासे बलिरक्षितग्रहणमपुनरूक्तं भवति, तथाजतीयकानां समासः। विकृतीनामेव चतुर्थ्यन्तानां प्रकृतिभिः सह समासे बलिरक्षितग्रहणमपुनरूक्तं भवति, न तादर्थ्यमात्रे। अश्‍वघासादयस्तु षष्‍ठीसमासा भविष्यन्ति। यद्धि यदर्थं भवति अयमपि तत्राभिसम्बन्धः, तस्येदमिति तद्‍यथा गुरोरिदं यद्‍गुर्वर्थमिति। तादर्थ्यं हि सम्बन्धविशेषः। विशेषे चावश्यमेव सामान्यं संभवति। न चैतत् कर्मादिष्वपि न दृश्यते, न माषाणामश्‍नीयात्, क्षुतं ते सर्वमेवैतदिति।

ननु च वरप्रदेया कन्येति यदि ददातिप्रयोगेऽपि न संप्रदानम्, सम्प्रदानेऽपि न चतुर्थे, कोऽन्यस्तयोर्विशेषो भविष्यति?

कः पुनराह नात्र संप्रदानम्? संप्रदान एवैषा चतुर्थ्यर्थे षष्‍ठी। दृश्यते हि संप्रदानादौ षष्‍ठीचतुर्थ्येरविशेषेण प्रयोगः, तद्‍यथा 'हिमवतो हस्ती' 'पुरूषमृगश्‍चन्द्रमसे', 'न वा अरे जायायै कामाय जाया प्रिया भवति आत्मनस्तु कामाय जाया प्रिया भवति, चिराय दृष्‍टः चिररात्राय दृष्‍टः', 'रोचते मम घृतं सह मुद्‍गैः शालयो दधिशरं क्रमुकाश्‍च', घृतमेव ममापि रोचते श्रृतशीतं च सशर्करं पयः इति।

अथ मासजातोऽयमिति किंप्रधानोऽयं समासः?

उत्तरपदार्थप्रधानः। सधर्मणाऽनेनान्यैरूत्तरपदार्थप्रधानैर्भवितव्यम्। अन्येषु चोत्तर— पदार्थप्रधानेषु यैवासावन्तर्वर्त्तिनी विभक्तिस्तस्याः समासेऽपि श्रवणं भवति। तद्‍यथा— राज्ञः पुरूषो राजपुरुषः इति। इह पुनर्वाक्ये षष्‍ठी, समासे प्रथमा। केनैतगदेवं भवति? योऽसौ मासजातयोः अभिसंबन्धः स समासे निवर्त्तते, अभिहितः सोऽर्थोऽन्तर्भूतः प्रातिपदिकार्थः संपन्न इति, तत्र 'प्रातिपदिकार्थे प्रथमा' (२.३.४६) इति प्रथमा भवति।

Showing 891 to 900 of 1013 verses