भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 921 to 930 of 1013 verses
असामर्थ्यात्।

कथमसामर्थ्यम्?

सापेक्षमसमर्थं भवति। न हि दध्नः पटुना सामर्थ्यम्।

किंतर्हि! भुजिना, दध्ना भुङ्क्ते पटुरिति।

इहापि तर्हि न प्राप्नोति शङ्कुलया खण्ड इति, अत्रापि न शङ्कुलायाः खण्डेन सामर्थ्यम् किं तर्हि? करोतिना, शङ्कुलया कृतः खण्ड इति।

तत्कृतेनेति वचनाद् भविष्यति।

वचनादिति चेद्, अथेह गुणवचनेत्युच्यमाने कथं मतुब्लोपाद् द्रव्यवचनेन खण्डादिना प्रतीयते?

१. मभा. २.१.३० तत्कृतार्थेनेति सूत्रपाठः।

इह तृतीया तत्कृतेन गुणेनेति सिद्धे यद्‍वचनग्रहणं करोति तस्यैतत् प्रयोजनम्। एवं यथा विज्ञायेत गुणमुक्तवान् गुणवचनः, खण्डगुणवान् खण्डः, पाण्डुगुणवान् पाण्डुः (मभा, २.१.३०) इति।

यद्येवम्— नार्थस्तत्कृतग्रहणेन भवति, भवति हि शङ्कुलायाः खण्डेन सामर्थ्यम्। असामर्थ्यादिह न भविष्यति दध्‍ना पटुरि— (मभा. २.१.३०)—ति।

Showing 921 to 930 of 1013 verses