इदं तर्हि तत्कृतस्य प्रयोजनम्— द्रव्यवचनैः कारकसमासे तदनुरूपा क्रियाऽध्याहर्त्तव्येति। तद्यथा अक्षेषु प्रसक्तः शौण्डः अक्षशौण्ड इति।
अथ द्रव्यवचनैस्यत्कृतसमासे गुणवचनेनेत्यपि किमर्थम् ?
इह मा भूद्—धान्येन धनवान्, गोभिर्वपावानिति ॥
अथ अश्राद्धभोजीति कोऽयं समासः ?
असमर्थनञ्तत्पुरूषः। (मभा. २.१.१)।
पूर्वोत्तरपदयोर्मिथोऽनपेक्षा। तथाहि अश्राद्धभोजीति भुजिक्रियया नञः सम्बन्धः, न श्राद्धेन। न हि तस्यायं नियमो न श्राद्धं भोक्तव्यमिति, अपितु श्राद्धं न भोक्तव्यमिति। यत्र हि वर्त्तिपदार्थसमवायिनी क्रियाऽभिधीयमाना प्रतीयमाना वा स्वभावतो निवृत्ता नञा द्योत्यते 'अपाचकः, अब्राह्मण' इति, तत्रैव सामर्थ्यम्। यत्र तु बाह्यक्रियया नञः संबन्धस्तत्राऽसामर्थ्यमेव। यथा सूर्यमपि न पश्यन्ति असूर्यंपश्या राजदाराः, न पुनर्गीयन्ते अपुनर्गेयाः श्लोकाः, लवणं न भुङ्क्ते अवलणभोजी भिक्षुरिति।
नन्वेवम्— अवयवार्थव्यतिरिक्तसमुदायार्थाभावेऽर्थवत्त्वाभावात् कथं प्रातिपदिकंसंज्ञा ?
समासग्रहणादिति चेद् अनर्थके कृतार्थत्वान्नियमाऽनुपपत्तिः। ततश्चार्थवतो वाक्यस्यापि प्रातिपदिकत्वप्रसङ्गः।
ननु च असू्र्यललाटयोदृशितपोः (३.२.३६), इत्यनेनासमर्थनञ्समासानां साधुत्वे ज्ञापिते 'अकिञ्चित्कुर्वाण', 'अमाषंहरमाणः', अगाधादुत्सृप्त/ष्टम् (मभा. २.१.१.) इत्यादीनामपि मा भूत् समास इत्यसूर्यंपश्यादयश्चत्वार एवाऽसमर्थसमासाः परिगण्यन्ते, (मभा.२.१.१.) परिगणनसामर्थ्यादेव प्रातिपदिकसंज्ञापि भविष्यति, तथाप्यनर्थकत्वादा— श्रयाऽभावे, संख्याकर्माद्यभावे तेषा वाचिका द्योतिका वापि विभक्तयो नोत्पद्येरन् ?