भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 931 to 940 of 1013 verses
इदं तर्हि तत्कृतस्य प्रयोजनम्— द्रव्यवचनैः कारकसमासे तदनुरूपा क्रियाऽध्याहर्त्तव्येति। तद्‍यथा अक्षेषु प्रसक्‍तः शौण्डः अक्षशौण्ड इति।

अथ द्रव्यवचनैस्यत्कृतसमासे गुणवचनेनेत्यपि किमर्थम् ?

इह मा भूद्—धान्येन धनवान्, गोभिर्वपावानिति ॥

अथ अश्राद्धभोजीति कोऽयं समासः ?

असमर्थनञ्‌तत्पुरूषः। (मभा. २.१.१)।

किं पुनरिहाऽसामर्थ्यम् ?

पूर्वोत्तरपदयोर्मिथोऽनपेक्षा। तथाहि अश्राद्धभोजीति भुजिक्रियया नञः सम्बन्धः, न श्राद्धेन। न हि तस्यायं नियमो न श्राद्धं भोक्‍तव्यमिति, अपितु श्राद्धं न भोक्‍तव्यमिति। यत्र हि वर्त्तिपदार्थसमवायिनी क्रियाऽभिधीयमाना प्रतीयमाना वा स्वभावतो निवृत्ता नञा द्योत्यते 'अपाचकः, अब्राह्मण' इति, तत्रैव सामर्थ्यम्। यत्र तु बाह्यक्रियया नञः संबन्धस्तत्राऽसामर्थ्यमेव। यथा सूर्यमपि न पश्यन्ति असूर्यंपश्या राजदाराः, न पुनर्गीयन्ते अपुनर्गेयाः श्‍लोकाः, लवणं न भुङ्क्ते अवलणभोजी भिक्षुरिति।

नन्वेवम्— अवयवार्थव्यतिरिक्‍तसमुदायार्थाभावेऽर्थवत्त्वाभावात् कथं प्रातिपदिकंसंज्ञा ?

समासग्रहणादिति चेद् अनर्थके कृतार्थत्वान्नियमाऽनुपपत्तिः। ततश्‍चार्थवतो वाक्यस्यापि प्रातिपदिकत्वप्रसङ्गः।

ननु च असू्र्यललाटयोदृशितपोः (३.२.३६), इत्यनेनासमर्थनञ्समासानां साधुत्वे ज्ञापिते 'अकिञ्चित्कुर्वाण', 'अमाषंहरमाणः', अगाधादुत्सृप्‍त/ष्‍टम् (मभा. २.१.१.) इत्यादीनामपि मा भूत् समास इत्यसूर्यंपश्यादयश्‍चत्वार एवाऽसमर्थसमासाः परिगण्यन्ते, (मभा.२.१.१.) परिगणनसामर्थ्यादेव प्रातिपदिकसंज्ञापि भविष्यति, तथाप्यनर्थकत्वादा— श्रयाऽभावे, संख्याकर्माद्यभावे तेषा वाचिका द्योतिका वापि विभक्‍तयो नोत्पद्येरन् ?

Showing 931 to 940 of 1013 verses