ननु च, यद्यसामर्थ्येऽपि वचनात् समासः 'किमद्य मे वस्त्रं नीलमुत्पलमालि कर्णे, नेह कश्चित् पुरूषो व्याघ्रः सरति पल्लीम्, पश्य सखि। कष्टं श्रितः प्रियो मे गुरूकुलम्; किं ते शङ्कुलया खण्डो देवदत्त उत्पलेन; गच्छ त्वं यूपाय दारू शोभनं शैले, निवर्त्तस्व वृकाद् भयं देवदत्तस्य यज्ञदत्तात्, भार्या राज्ञः पुरूषो देवदत्तस्य; सक्तस्त्वमक्षेषु शौण्डः पिबति पानागारे' इत्यादावपि समासः प्राप्नोति; स तर्ह्यत्रापि वचनाद् 'विशेषणं विशेष्येण', 'द्वितीया श्रितादिभिः', 'तृतीया तत्कृतेन', चतुर्थी तदर्थेन', पञ्चमी भयेन', 'षष्ठी सुबन्तेन', 'सप्तमी शौण्डादिभिः' समस्यत इति।
विषम उपन्यासः; परिगणनादीन्यसामर्थ्य एव समासार्थमारभ्यन्ते। यथा 'कृतपूर्वी कटमि' त्याद्यर्थं 'पूर्वादिनिः' (५.२.८६), सपूर्वाच्च (५.२.८७) इति। 'विशेषणं विशेष्येण' इत्येवमादीनि तु 'समर्थः पदविधिः' (२.१.१) इति सामर्थ्ये सत्युपादीयन्ते। सामर्थ्यविषयप्रदर्शनार्थमेव च 'विशेषणं विशेष्येण' इति प्रथमायां सामानाधिकरण्यं द्वितीयायां च श्रितादिनियमः, तृतीयायां तत्कृतादिवचनम्, चतुर्थ्यां प्रकृतिविकारभावः, पञ्चम्यां भयादिपरिगणनम्, षष्ठ्यां पूरणादिनिषेधः, सप्तम्यां शौण्डादिनिर्देश इत्युपपद्यते। तेन यत्र विशेषणादिषु सामानाधिकरण्यादेरभावस्तत्रासामर्थ्यात् समासो न भवति ॥
अब्राह्मणोऽयमिति कोऽयं समासः ? समर्थनञ्तत्पुरूषः।
उत्तरपदार्थप्रधानः। अब्राह्मणमानतेत्युक्ते ब्राह्मणमात्रस्यानयनं प्राप्नोति।
नैष दोषः। इदं तावदयं प्रष्टव्यः—अथेह राजपुरूषमानयेत्युक्ते पुरूषमात्रस्यानयनं कथं न भवति राजाऽत्र विशेषकः प्रयुज्यते तेन राजविशिष्टस्याऽऽनयनं भवष्यिति।
इहापि नञ्—विशेषकः प्रयुज्यते, तेन नञ्विशिष्टस्यानयनं भविष्यति।
निवृत्तपदार्थकः। यदा पुनरस्य पदार्थो निवर्त्तते तदा किं स्वाभाविकी निवृत्तिः ? आहोस्विद् वाचनिकी ?
किं चाप्तः ? यदि स्वाभाविकी किं नञ् प्रयुज्यमानः करोति ?