नैवम्, समुदायस्तावदानर्थक्येऽपि 'न केवला प्रकृतिः प्रयोक्तव्या' इति नियमादवश्यमेवाव्ययादिवद् विभक्तिमात्रमपेक्षते, अवयवस्त्वर्थवत्त्वात् संख्याकर्मा— देराश्रयत्वेन तां विशिष्टामेवाङ्गीकरोति। ततश्च यथाऽऽतुरानातुरयोरेकभोजन— प्रतिपत्तावातुराणां भोजनमनातुरोऽपि प्रतिपद्यते तथाऽवयवार्थाऽनुग्रहार्थकोऽपि समुदायो विभक्तिविशेषमेव प्रतिपत्स्यत इति न कश्चिद् दोषः।
ननु 'असत्येकार्थीभावे व्यपेक्षाधर्माः कथं न निवर्त्तन्ते ?'
के पुनस्ते ? 'विशेषणयोगः, समुच्चयः, संख्याविशेष' इति (श्रृ.प्र. ७)। तत्र—
ब्राह्मणस्य शोभनं 'श्राद्धं न भुङ्क्त' इति विशेषणयोगः,
श्राद्धं न भुङ्क्ते बलिमामन्त्रणं चेति समुच्चयः,
श्राद्धं श्राद्धानि वा भुङ्क्ते इति संख्याविशेषयोगः।
ते च वाक्य एवोपलभ्यन्ते, न त्वश्राद्धभोजीति वृत्तौ, न ह्यश्राद्धभोजी(जो)ब्राह्मणस्य शोभनमित्यादि। तत् कथमुच्यते नास्त्यत्रैकार्थीभाव इति ?
नैवम्। अश्राद्धशब्दो ह्यत्राऽसमर्थः, न त्वश्राद्धभोजिशब्दः। अश्राद्धभोजि— विषयाश्चैते विशेषणयोगदयः प्रतीयन्ते, नाश्राद्धविषया इति।
ननु च यद्यश्राद्धशब्दः समुदायार्थाभावादनर्थकः, अश्राद्धभोजिशब्दोऽप्यर्थवद— नर्थकसंघातत्वादनर्थकः प्राप्नोति।
अस्त्वानर्थक्यम्। वाक्यविषयास्तु धर्मा भविष्यन्ति तच्चानर्थक्यमपि परिहर्त्तव्यम् इदं च वरिह्रियते, शब्दशक्तिरेषा यदभिन्नेऽप्यर्थे केनचिच्छब्देनाभिधीयमाने विश्ोषणादियोगो भवति, केनचिन्न भवति। तत्र वाक्येऽसमर्थसमासपदानामविद्यमानमापि वृत्तौ शब्दान्तरत्वा— दस्त्येकार्थाभिधायित्वमिति।