नैवम्। अव्ययसंज्ञाप्रसङ्गात् अव्ययं ह्यस्य पूर्वपदम्।
नैष दोषः। पाठेनाव्ययसंज्ञा क्रियते, न च नञ्समासस्तत्र पठ्यते। मा भूदव्ययेषु पाठः; तथाप्यभिधेयवल्लिङ्गवचनानि भवन्ति; यश्चेहार्थोऽभिधीयते न तस्य लिङ्गसंख्याभ्यां योगोऽस्ति। नेदं वाचनिकम्— अलिङ्गता, असंख्यता वा। किं तर्हि? स्वाभाविकमेतत्। तत्र किमस्माभिः शक्यं वक्तुम्, यन्नञः प्राक् समासाल्लिङ्गसंख्याभ्यां योगो नास्ति, समासे च भवति।
यदि वा गुणवचनानामाश्रयतो लिङ्गवचनानि भवन्ति। यदसौ द्रव्यं श्रितो भवति गुणः समासो वा, तस्य यल्लिङ्गं वचनं च तद् गुणस्येव समासस्यापि भवति।
उच्यते इह त्रयी गतिः १. कदाचिन्नञर्थेनोत्तरपदार्थो विशेष्यते,
२. कदाचिन्नञर्थ उत्तरपदार्थेन,
३. कदाचिन्नञर्थोत्तरपदार्थाभ्यामन्यः पदार्थ इति। तत्र—
(१) यदा नञर्थोत्तरपदार्थाभ्यामन्यपदार्थो विशेष्यते तदा 'समानाधिकरणानां बहुव्रीहिः', 'नञर्थश्च विशेष्यो भवती' ति षट् समासार्थभेदा जायन्ते — १. अत्यन्ताभावः, २. अनत्यन्ताभावः, ३. अन्यतराभावः, ४. तादात्म्याभावः, ५. संबन्धाऽभावः, ६. प्रध्वंसाभाव इति। यथा— अरूपो वायुः, अनुदारा कन्या, अकिञ्चनः पुमान्, अपिशाचः कुड्यः, अघटं भूतलम्, अनङ्ग काम इति।
(२) यदा तूत्तरपदार्थेन नञर्थो विशेष्यते तदा पूर्वपदार्थप्रधानस्तत्पुरुषः। नञर्थोपाधेश्च षट् समासार्थभेदा जायन्ते— १. प्रागभावः, २. सामर्थ्याभावः, ३. आवश्यकताऽभावः, ४. इतरेतराभावः, ५. सत्ताऽभावः, ६. भावाभाव इति। यथा— अनुत्पन्नो घटः, अप्रधृष्यः सुभटः, अभूषितः कान्तः, अवर्षा (मभा. २.२.६) हेमन्तः, असच्छशविषाणम्, अनुद्भिन्नः प्रवाल इति।
(३) यदा तु नञर्थेनोत्तरपदार्थो विशेष्यते तदोत्तरपदार्थप्रधानस्तत्पुरुषः, पदार्थस्य च नञर्थोपाधे षट् समासभेदा जायन्ते, यथा— १. तदभावः, २. तदन्यः, ३. तत्सदृशः, ४. तद्विरुद्धः, ५. तदपकृष्टः, ६. तदुत्कृष्ट इति। यथा— अनन्यः, अनत्रिः, अब्राह्मणः, असितः, अमनुष्यः, अमानुषः इति। ननु च, अन्यपदार्थतत्पुरुषयोरन्यत्रापि नञ्समासो दृश्यते। यथा मक्षिकाणामभावोऽमक्षिकमिति।
नायं नञ्समासः, किन्तर्हि 'अव्ययं विभक्ति' (२.१.६) इत्यादिना अव्ययमभावार्थे समस्यते, अव्ययीभावश्च समासो भवति। यथा निवातं निशीतम् इति।