किं पुनरमी नञ्समासार्था अन्यपदार्थादिषु व्यवतिष्ठन्ते उत सप्लवन्ते? केचिद् व्यवतिष्ठन्ते प्रध्वंसाभावादयः। तद्यथा—
भवेदभीष्ममद्रोणं धृतराष्ट्रबलं कथम्।
यदि तत्तुल्यकक्षोऽत्र भवान् धुर्यो न युज्यते ॥ ६० ॥
यथा च अनुदरा कन्या, अलोमिका एडकेति।
केचित् तु संप्लवन्ते प्रागभावादयः। तद्याथा—
अजन्मा पुरुषस्तावदपुमान् पशुरेव वा।
यावल्लीलावतीवक्रप्रेक्षितार्थं न बुध्यते ॥ ६१ ॥