भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 981 to 990 of 1182 verses
वाढम्, तस्य तद्धितार्थोत्तरपदसमाहारेष्वेव भावात्। न चेह तद्धितार्थ उत्तरपदं वा विद्यते, न चैकस्य समाहारः संभवति।

यदा तु सामर्थ्यातिशयादेकस्मिन्नपि समूहारोपणम्, तदा, भवत्येव, यथा— 'एकापूपी एकशाटीति। किं पुनर्द्विगुसंज्ञा प्रत्ययोत्तरपदयोर्भवति ? एवं तावत्। एतर्हीतरेतराश्रयत्वादप्रसिद्धिः।

कथमितरेतराश्रयत्वम्?

द्विगुनिमित्ते प्रत्ययोत्तरपदे, प्रत्ययोत्तरपदनिमित्ता च द्विगुसंज्ञेति।

एवं तर्हि 'अर्थ' इति वक्ष्यामि

अर्थे चेत् तद्धितानुत्पत्तिर्बहुव्रीहिवत्। तत्र यथा 'चित्रगुः शबलगुः' इति बहुव्रीहिणोक्‍त— त्वान्मत्वर्थस्य मत्वर्थीयो न भवति, एवं द्वैमातुरः पाञ्चनापितिः' इत्यादौ तद्धितार्थस्य द्विगुनोक्‍तत्वात् तद्धितोत्पत्तिर्न प्राप्नोति।

यथेच्छसि तथाऽस्तु। अस्तु तावत् प्रत्ययोत्तरपदयोरिति।

ननूक्तमितरेतराश्रयत्वादप्रसिद्धिरिति, नैष दोषः, नेदं तुल्यमन्यैरितरेतराश्रयैः, शब्दनित्यत्वात्।

ननु च न संज्ञा नित्या।

किं तर्हि? शब्दः।

Showing 981 to 990 of 1182 verses