वाढम्, तस्य तद्धितार्थोत्तरपदसमाहारेष्वेव भावात्। न चेह तद्धितार्थ उत्तरपदं वा विद्यते, न चैकस्य समाहारः संभवति।
यदा तु सामर्थ्यातिशयादेकस्मिन्नपि समूहारोपणम्, तदा, भवत्येव, यथा— 'एकापूपी एकशाटीति। किं पुनर्द्विगुसंज्ञा प्रत्ययोत्तरपदयोर्भवति ? एवं तावत्। एतर्हीतरेतराश्रयत्वादप्रसिद्धिः।
द्विगुनिमित्ते प्रत्ययोत्तरपदे, प्रत्ययोत्तरपदनिमित्ता च द्विगुसंज्ञेति।
एवं तर्हि 'अर्थ' इति वक्ष्यामि
अर्थे चेत् तद्धितानुत्पत्तिर्बहुव्रीहिवत्। तत्र यथा 'चित्रगुः शबलगुः' इति बहुव्रीहिणोक्त— त्वान्मत्वर्थस्य मत्वर्थीयो न भवति, एवं द्वैमातुरः पाञ्चनापितिः' इत्यादौ तद्धितार्थस्य द्विगुनोक्तत्वात् तद्धितोत्पत्तिर्न प्राप्नोति।
यथेच्छसि तथाऽस्तु। अस्तु तावत् प्रत्ययोत्तरपदयोरिति।
ननूक्तमितरेतराश्रयत्वादप्रसिद्धिरिति, नैष दोषः, नेदं तुल्यमन्यैरितरेतराश्रयैः, शब्दनित्यत्वात्।