यद्येवं भाविनी संज्ञा विधास्यते। तद्यथा— 'कश्चित् तन्तुवायमाह अस्य सूत्रस्य शाटकं वयेति।
स पश्यति यदि शाटको न वातव्यः, अथ वातव्यो न शाटकः। शाटको वातव्यश्चेति विप्रतिषिद्धम्। भाविनी तु खल्वस्य संज्ञाभिप्रेता; स मन्यते — 'वातव्यम्, यस्मिन्नुते शाटक इत्येतद्भवती'—ति। एवमिहापि— 'तस्मिन् द्विगुर्भवति यस्याभिनिर्वृत्तस्य प्रत्यय उत्तरपदमित्येते संज्ञे भविष्यतः इति।
ननु चोक्तम् 'अर्थे चेत् तद्धिताऽनुत्पत्तिर्बहुव्रीहिवदि'—ति। नैष दोषः। नावश्यमर्थशब्दोऽभिधेय एव वर्त्तते, किं तर्हि, स्यादर्थेऽपि। तद् यथा— 'दारार्थं भिक्षामहे, जनार्थं भिक्षामहे; दारा नः स्युः जना नः स्युरिति। एवमिहापि तद्धितार्थे द्विगुर्भवति तद्धितः स्यादिति। द्विगोर्वा लुग्वचनं ज्ञापकम् (वा.५); यदयं 'द्विगोर्लुगनपत्ये' (४.१.८८) इति द्विगोस्तद्धितस्य लुकं शास्ति, तज्ज्ञापयति— 'उत्पद्यते द्विगोस्तद्धित' इति।
यद्येवम् समाहारसमूहयोरविशेषात् समाहारग्रहणमनर्थकम्, 'तस्य समूह' (४.२.३७) इति तद्धितार्थे/नैव कृतत्वात्। तथाहि 'समाहारः समूह' इत्यविशिष्टावेतावर्थौ। तत्र समूह इव समाहारेऽपि तद्धितार्थे द्विगुरित्येव भविष्यति। यदि तद्धितार्थे द्विगुर्भवतीत्युच्यते, तद्धितोत्पत्तिः प्राप्नोति। उत्पद्यताम् लुग्भविष्यति। लुक्कृतानि प्राप्नुवन्ति। कानि पुनस्तानि? 'पञ्चपूली' 'दशपूली' इति।
अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि (४.१.२२) ङीप्प्रतिषेधः प्राप्नोति; 'पञ्चगवं दशगवमिति 'गोरतद्धितलुकि (५.४.९२) इति टच् न प्राप्नोति।
नैष दोषः, अविशेषेण द्विगो ङीब्भवतीत्युक्त्वा 'अपरिमाणबिस्ताचितकम्बल्येभ्यः समाहारे इति वक्ष्यामि; अविशेषेण च गोष्टच् भवतीत्युक्त्वा द्विगोः समाहारे इति वक्ष्यामि; तदुभयमपि नियमार्थं भविष्यति 'समाहार एव नान्यत्रे'—ति।
एवं तर्हि अभिधानार्थं समाहारग्रहणम्; समाहारेणाभिधानं यथा स्यान्न तद्धितार्थेन।
यदि स्यात् को दोषः स्यात् ?
तद्धितोत्पत्तिः प्रसज्येत।