यत्र त्वसाधारणविशेषणादिभिर्विशेष एव समासस्तत्रानुप्रयोगो न भवत्येव; यथा त्रिलोचनः शूलपाणिरिति। एवं तर्हि, सामान्यवचनानामनुप्रयोगस्याऽप्राप्तिः। यथा— 'चित्रगु सर्वम्', 'चित्रगु विश्वम्' इति। सामान्यमपि यथा विशेषः, तथाहि यथा चित्रगुशब्दादिप्रयोगे विशेषान्तराणां निवृत्तिः तथा सर्वादिशब्दप्रयोगे विशेषाणां निवृत्तिः प्रतीयते।
यदि वा, 'चित्रा गावोऽस्य देवदत्तस्योति षष्ठ्यर्थस्य समासेनाऽभिधानात् षष्ठी नाऽनुप्रयुज्यते, सम्बन्धी तु न समासोपादान इत्यनुप्रयुज्यते।
एवं तर्हि विभक्त्यर्थाभिधायिनो बहुव्रीहिपदस्य देवदत्तादिभिर्द्रव्यवचनैः सामानाधिकरण्यं न प्राप्नोति।
मैवम्; मतुपोऽपि संबन्धार्थत्वात् द्रव्यवचनैरसामानाधिकरण्यमेव।
न च बहुव्रीहेर्विभक्त्यर्थाभिधायिनो मतुप्प्रत्ययो विधातुं शक्यते; स हि प्रथमासमर्थादस्त्युपाधिर्विधीयते; न च विभक्त्यर्थवृत्तेर्बहुव्रीहिपदस्यास्त्यादिक्रियाभिः सामानाधिकरण्येन सम्बन्धो भवति।
अथ अभिहितः सोऽर्थोऽन्तर्भूतः प्रातिपदिकार्थः संपन्न इति सामानाधि /?/करण्यमुपपत्स्यते।
तन्न; अभिहितोऽप्यसौ यतो यत्रेत्यादिवन्न स्वरूपं हास्यति।