उपलक्षणं चाऽत्र षष्ठी। तेन कर्मकर्त्तृप्रवचनेनाऽप्रथमाया अपि बहुव्रीहिर्वक्तव्यः—'ऊढो रथोऽनेन ऊढरथोऽनड्वान् उद्धृत ओदनः अस्या उद्धृतौदना़ स्थाली, उपहृतः पशुरस्मै उपहृतपशू रुद्रः, आरूढो वानरोऽमुम् आरूढवानरो वृक्षः, प्राप्ता अतिथयोऽस्मिन् प्राप्तातिथिर्ग्रामः, सिद्धः साधकोऽनया सिद्धसाधका विद्ये—'ति।
अथ अप्रथमाया इति किमर्धम् ?
इह मा भूद्— 'वृष्टे देवे गत' इति।
अथ इह कस्मान्न भवति— 'वृष्टे देवे गतं पश्ये'—ति ?
यद्येवं षष्ठ्याद्यन्तरङ्गत्वे 'चित्रगोर्देवदत्तस्ये'—त्यादौ पुनः षष्ठ्यादयो न स्युः। बाह्यं सम्बन्धिनमपेक्ष्य भविष्यन्ति।
अथ यथा चित्रगुप्रभृतिभ्यः षष्ठ्यादयः तथा 'यतो यत्रे'—त्यादिभ्यः पञ्चमीसप्तम्यादयोऽपि कस्मान्न भवन्ति?
उच्यते— 'तसिलू—त्रलादिभिः पञ्चमीसप्तम्यादीनामभिहितोऽर्थोनन्तर्भूतः। चित्रगुप्रभृतिषु तु बहुव्रीहिणाऽभिहितः सोऽर्थोऽन्तर्भूतः प्रातिपदिकार्थः संपन्नः इति।
अथेह बहुव्रीहिः कस्मान्न भवति 'पञ्चभिर्भुक्तमस्य' ?
बहुव्रीहिः समानाधिकरणानामेवेति स्मरणात्।