भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 1021 to 1030 of 1182 verses
एवं तर्हि, यथा— 'जातौ पदार्थे जातेः कार्यमुच्यमानमसंभवात् तत्सहचरितासु व्यक्तिषु निविशेत् तथा बहुव्रीह्यर्थे संबन्धे सामानाधिकरण्यक्रियायोगादिकार्यं प्रयुज्यमानं तदाश्रये भविष्यति; एवं च सोऽयमित्युपचरितसंबन्धेषु संबन्धिषु बहुव्रीहिपदैरभिधीयमानेषु, शुक्लादिविशेषणानामिवाश्रयतो लिङ्गवचनान्यपि न विरोत्स्यन्ते।

यदिवा 'अन्यपदार्थ' इत्यर्थग्रहणसामर्थ्यात् सद्रव्यस्य सलिङ्गस्य ससंख्यस्य चोपादानं भविष्यति, न विभक्त्यर्थमात्रस्य।

कथं पुनरर्थशब्दोपादानादयमर्थो लभ्यते ?

श्रूयताम्— 'अन्यपद इतीयत्युच्यमाने पदे वृत्त्यसंभावात् पदसहचरितां यां काञ्चिदर्थमात्रां पदशब्दो लक्षयेत् पदत्वस्य वा निमित्तत्वेन प्रत्यासन्नोपकारिणं विभक्त्यर्थं प्रत्याययेत्; सोऽयमेवं सिद्धे समीहिते यदर्थग्रहणं करोति तेनैतत् ज्ञापयति 'यावानर्थश्रुतेः पदविषयोऽर्थः प्रतीयते, तावान् सर्वोऽपि त्यागनिमित्ताऽभावादुपादीयत इति।

अपि च, पदमर्थस्य परिच्छेदायोपादीयते; अर्था हि प्रकृत्यादीनां सामान्येन प्रसक्‍ताः पदेनावच्छिद्यन्ते पदावधिकोऽर्थ उपादेय इति; तत्र यथा वाक्यार्थस्यानाश्रयण— माधिक्यात् तथा पदार्थैकदेशस्यापि, न्यूनत्वात्। तदेवमर्थग्रहणसामर्थ्यात् सलिङ्गः ससंख्यः सद्रव्यश्‍च समर्थः पदार्थ उपादीयते।

ननु च बहुव्रीहिणा समस्तपदार्थाभिधाने तथा सम्बन्धाभिधायिका षष्ठी न प्रयुज्यते तथा संख्याभिधायिनः स्वादयः, लिङ्गाभिधायिनष्टावादयो वा न प्रयुज्येरन् ?

उच्यते— एकादिपदैरिव वृत्तिपदैरभिहिताऽपि न संख्या संख्याकार्यं विघ्नयिष्यति; न हि षष्ठ्यादिविधान इव वचनविधावनभिहिताधिकारो विद्यते, कर्मादयश्‍च कारकविशेषाः प्रत्याययितव्या इत्यवश्यविधेया द्वितीयादयः; प्रथमा तु वचनग्रहण— सामर्थ्यात् 'न केवला प्रकृतिः प्रयोक्‍तव्या' इति समयाद् वा प्राथमिककल्पिकी भविष्यति।

स्यादेतत्,

यथा अभिहिता एकत्वादयो वचनव्यवस्थानिमित्तं तथाऽभिहितः सम्बन्धोऽपि षष्ठीनिमित्तं भवति। तदयुक्तमनभिहिताधिकारात्। अपि च, सम्बन्धोपसर्जनं प्रातिपदिकार्थो वृत्तिशब्दे— नाभिधीयते; न चायं षष्ठीविषयः, तस्याः प्रातिपादिकार्थोपसर्जने संबन्धे विधानात्। टाबादयस्तु स्वार्थिकत्वादभिहितेऽपि लिङ्गोभवन्ति, तदुक्तम्— 'सिद्धं तु स्त्रियाः प्रातिपदिकविशेषणत्वात् स्वार्थे टाबादय, इति (मभा. ४.१.१ वार्त्ति. २१)।

यदि वाऽन्य एव वाक्यार्थो वृत्त्यर्थात्। तथाहि— 'चित्रा गावोऽस्येति अन्यपदार्थोपसर्जनाश्‍चित्रगव्यो वाक्येनाभिधीयन्ते, चित्रगुरिति पुनर्वृत्तौ गवार्थोपसर्जनः स्वामी प्रतीयते; तत्र यदा निर्ज्ञातपराधीनतानां चित्रगवीनां स्वामिविशेषा—ऽवच्छेदायाऽन्यपदार्थ उपादीयत 'अस्यैता गाव' इति तदा बहुव्रीहिर्न भवति। यदा तु ताश्‍चित्रा गावः स्वामिनो विशेषाभिधानाय प्रत्यवमृश्यन्ते गवीनामासामयं स्वामी'—ति तदा बहुव्रीहिर्भवति चित्रगुः, शबलगुरिति। तामेव च स्वामिविशेषणतां स्फुटमुपदर्शयन्तो निदर्शयन्ति—'यस्य चित्रा गावः स चित्रगुः, यस्य शबलाः स शबलगुरिति।

Showing 1021 to 1030 of 1182 verses