भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 1041 to 1050 of 1182 verses
यद्येवम्— 'अस्तिक्षीरा, उच्चैर्मुखः, अभार्यः, प्रपर्णः, उष्ट्रमुखः, चन्द्रवदना, केशचूडः, सुवर्णाऽलङ्कारः, चन्द्रशेखरः, शूलपाणिः, कण्ठेकालः, उरसिलोमेति बहुव्रहिसंज्ञा न प्राप्नोति। तथाहि— आद्येषु चतुर्षु पूर्वपदमव्ययम्, तस्याऽसत्त्ववाचित्वात् सत्त्वभूतैः क्षीरादिभिः सह सामानाधिकरण्यं नास्ति; मध्यमेष्वपि विशेषणविशेष्य— भावानुपपत्तेर्न सामानाधिकरण्यं घटतो; अन्त्येषु तु सप्तम्यन्त—प्रथमान्तयो— रसामानाधिकरण्यं व्यक्तमेनेति।

नैवम्।

एतेष्वपि सामानाधिकरण्योपपत्तेः। तत्र

अस्तीति निपातो विभक्तिप्रतिरूप इति कालं पुरुषं संख्यां साधनं च न व्यभिचरति। उच्चैःशब्दस्यापि सत्त्ववचनत्वं दृश्यते 'किं पुनर्यस्तथोच्चैः (मेघ. १७) इति। अतएव एताभ्यामस्तितोच्चस्त्वमिति भावप्रत्यया अपि। अभार्य इत्यादिषु दध्यो दनादिवन्मध्यमपदलोपो व्यवस्थितविभाषया वृत्तिविषये द्रष्टव्यः। तेनायमर्थः सम्पद्यते—

अस्ति क्षीरमस्याः अस्तिक्षीरा गौः,

उच्चैर्मुखमस्य उच्चैर्मुखो मैत्रेयः,

अविद्यमाना भार्या अस्य अभार्यः, अविद्यमानभार्यो वा,

प्रपतितानि पर्णानि अस्य प्रपर्णः, प्रपतितपर्णो वा।

'उष्ट्रमुखः चन्द्रवदने—'त्येतयोस्तु उष्ट्रचन्द्रशब्दौ भूयोऽवयवसामान्ययोगातिशया— दभेदोपचारेण मुखविशेषणं भवन्तौ गौणी वृत्तिमनुभवतः।

ननु किमुष्ट्रमुखयोर्मिथः सादृश्यम्?

Showing 1041 to 1050 of 1182 verses