एवं तर्हि मत्वर्थग्रहणं करिष्यते—' समानाधिकरणानां मत्वर्थ बहुव्रीहिर्भवतीति; तथाऽपि ऊढो रथोऽनेन ऊढरथोऽनड्वान्, दक्षिणस्याश्च पूर्वस्याश्च दिशो यदन्तरालं सा दक्षिणपूर्वा, पुत्रेण सह सपुत्रः, केशेषु केशेषु च गृहीत्वा प्रवृत्तं युद्धं केशाकेशि, दण्डैश्च दण्डैश्च प्रहृत्य दण्डादण्डि, त्रिर्दशैते त्रिदशाः, इत्येवमादिभिरव्याप्तिरेव।
तस्मात् सुदूरमपि गत्वाऽभिधानमेवाश्रयितव्यम्। अभिधानलक्षणा हि कृत्तद्धितसमासा इति कृतं परिगणनेन।
अथ त्रिदशा इति कोऽस्य विग्रहः ?
त्रिर्दशैते त्रिदशा इति। संख्यासमासे सुजन्तस्य संख्येत्यप्रसिद्धिः' इति (२.२.२५ वार्त्तिक—१) न हि अत्कारान्ता संख्याऽस्ति।
अस्तु तर्हि अयमेव विग्रहः— 'त्रिर्दशैते त्रिदशा' इति। ननु चोक्तं संख्यासमासे सुजन्तस्य संख्येत्यप्रसिद्धिरिति, नैष दोषः, सुजन्तस्य संख्येत्यप्रसिद्धिः, न चाऽत्र समासे सुजन्तं पश्यामः।
वाक्ये सुच् दृश्यते, समासे तु न दृश्यते ?