भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 1051 to 1060 of 1182 verses
उष्ट्रशब्देनेह उष्ट्रमुखमभिधीयते, अवयवेऽप्यवयविवद् उपचारो द्रष्टव्य इति। केशचूडः, सुवर्णालङ्कारः, इत्येतयोस्तु केशसंघाते केशशब्दो वर्त्तते, सुवर्णविकारे तु सुवर्णशब्द, कारणे कार्योपचारात्।

'चन्द्रशेखरः, शूलपाणिः' इत्यत्र चन्द्रशूलोपलक्षितौ शेखरपाणी चन्द्रशूल— शब्दाभिधेयौ। यथा 'कुन्तान् प्रवेशय यष्टीः प्रवेशये' ति।

'कण्ठेकाल उरसिलोमा' इत्येतयोस्तु कण्ठे स्थितः काल अस्य, उरसि जातानि लोमान्यस्ये—ति पदान्तरम् अध्याह्रियते; यथा द्वारं द्वारमित्युक्ते अपाव्रियतां संव्रियतां वेति। एतेन सुबधिकारेऽस्तिक्षीरेत्युपसंख्यानम् (२.२.२४ वा., मभा.)

अव्ययानां बहुव्रीहिर्वक्‍तव्यः, ( " )

सप्तम्युपमानपूर्वपदस्योत्तरपदलोपश्‍च ( " )

समुदायविकारषष्ठ्याश्‍च ( " )

प्रादिभ्यो धातुजस्य वा ( " )

इत्यपि न भवति। ( " )

ननु परिगणनार्थमप्येतदवश्यं वक्‍तव्यम्,

नैवम्, क्रियमाणेऽपि हि परिगणने यत्राभ़िधानं नास्ति न तत्र समानाधिकरणानामपि बहुव्रीहिः, तद्‌यथा पञ्च भुक्तवन्तोऽस्येति। (मभा. २.२.२४ वा. १०, १६)

Showing 1051 to 1060 of 1182 verses