भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 1071 to 1080 of 1182 verses
समासेन। किं च भोः सुजर्थे समास उच्यते ?

नैवम्, सामर्थ्यादिह सुजर्थो गम्यते।

कथम् ?

यावता संख्या संख्यया संख्यायते, स च क्रियाभ्यावृत्त्यर्थ उक्तः समासेनेति कृत्वा सुज् न भविष्यति।

प्रकृतिः प्रातिपदिकरूपाऽप्येषोपदर्शिता।

स्वरूपं प्रत्ययादीनां पृथक् पृथगथोच्यते ॥ ४९ ॥

(२. प्रत्ययः)

तत्र प्रतीयतेऽनेनार्थ इति प्रत्ययः।

स त्रिधा १. धातुप्रत्ययः २. प्रत्ययप्रत्ययः ३. प्रातिपदिकप्रत्यय इति। तेषु— (१. धातुप्रत्ययाः—)

सनादयः, तिबादयः, तुमुनादयः, तव्यादयः, ण्वुलादयः, उणादयश्‍चेति धातुप्रत्ययभेदाः। तत्र—

Showing 1071 to 1080 of 1182 verses