सर्वकारकेषु सिद्धभावे च ये विधीयमानाः प्रायेण द्रव्यवचनत्वं लभन्ते ते उणादयः। यथा— शीतो वायुः, वत्सला धात्री, तीक्ष्णं दात्रम्, वृद्ध उपाध्यायः, रम्यः प्रासादः, पाको वर्त्तत इति।
यदादयः, घादयः, मबादयः, फगादयः, युजादयः, ढगादयश्च प्रत्ययप्रत्ययभेदाः।
तेषु भवापत्यस्वार्थमत्वर्थादिषु सुबन्तेभ्यो य उत्पद्यन्ते ते यदादयः। यथा— अप्सव्यः, पूर्वाहणेनम्, चिरन्तनम्, आमुष्यायणः, त्वयका, शुभंयुः इति।
प्रकर्षाऽपकर्ष—कुत्सा—प्रशंसादिषु तिङन्तेभ्यो य उत्पद्यन्ते ते घादयः। यथा— पचतितराम्, गच्छतितमाम्, जल्पतिकल्पम्, स्पृशतिदेश्यम्, पचतकि, पचतिरूपम् इति।
निर्वृत्तस्वार्थमत्वर्थादिषु कृद्भ्यो उत्पद्यन्ते ते मबादयः यथा— कृत्रिमम्, पाकिमम्, सांराविणम्, व्यावक्रोशी, जित्वरी, श्यैनंपाता इति।