इच्छाप्रयोजकव्यापारादिक्रियासु क्रियासमभिहारादिषु च ये विधीयमानाः क्रियावचनत्वाद् भूवादिवदेव प्रत्ययान्तरमपेक्षन्ते ते सनादयः। यथा— चिकीर्षति, अध्यापयति, पापच्यते, गोपायति, ऋतीयते, कामयते इति।
क्रियाप्रधानाः कर्तृकर्मणोः क्रियायां च ये विहिताः साध्यरूपापन्नक्रियाभिधायित्वेन प्रत्ययान्तरं नापेक्षन्ते ते तिबादयः। यथा 'व्रजति देवदत्तः, पच्यते ओदनः, रज्यति वस्त्रम्, लूयते केदारः, चोरस्य रुजति, आस्यते युष्माभिः' इति।
अनुपातिक्रिया— क्रियाभिधायिनोऽसत्त्वभूतार्थाः साध्यभावे ये विधीयन्ते ते तुमुनादयः। यथा—'पक्तुमिच्छति, भुक्त्वा व्रजति, अधीत्य स्नाति, पायंपायमास्ते, चोरङ्कारमाक्रोशति, चकासाञ्चकार इति।
प्रायेण भावकर्म्मणोः कर्त्रादिषु च ये विधीयन्ते ते तव्यादयः। यथा— गन्तव्यं भवता, करणीयः कटः, कृतं भवता, लूयमानः केदारः, दुर्गमो मार्गः, वास्तव्यो लोक' इति।
प्रायेण कर्त्तरि कर्मादिषु च ये विधीयन्ते ते ण्वुलादयः। यथा— पाचकः पुमान् सोमं पवमानम्, पचन्यवागूम्, कन्यामलङ्करिष्णुः, पादहारकः पङ्कः, प्रियङ्करणं शीलम् इति।