प्रकृत्यर्थसंख्याभिधायिनः प्रातिपदिकादेव य उत्पद्यन्ते ते स्वादयः। यथा— कुण्डम्, कुण्डे, कुण्डाभ्याम्, कुण्डेभ्यः, कुण्डयोः, कुण्डेषु इति।
शक्तिमात्राभिधायिनः सोपाधिशक्त्यभिधायिनो वा सुबन्तप्रातिपदिकात् स्वार्थादिषु य उत्पद्यन्ते ते तसिलादयः। यथा— यतः, यत्र, कदा, पुरस्तात्, बहुशः, पुरुत्रावसति इति।
कुत्सा—प्रशंसाऽतिशयाऽनतिशयाद्युपाधेरनुपाधेश्च सुबन्तादेव प्रातिपदिकात् स्वार्थादिषु य उत्पद्यन्ते ते कादयः। यथा— अश्वकः, युष्मकाभिः, वैयाकरणरूपः, पटुतरः कुटीरः, तार्तीयीकम् इति।
समर्थप्रातिपदिकात् सम्बन्धिकारकभावेषु य उत्पद्यन्ते ते अणादयः। यथा— औपगवः, तावकीनः, आक्षिकः, वामदेव्यम्, ब्राह्मणत्वम्, पौराहित्यम् इति।
कर्मादिकारकोपहित—क्रियेच्छाचार—च्व्यर्थादिषु समर्थादेव प्रातिपंदिकाद् य उत्पद्यन्ते ते क्यजादयः। यथा— चित्रीयते, पुत्रकाम्यति, श्येनायते, लोहितायति, कण्डूयते, मुण्डयति' इति।