भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 1121 to 1130 of 1182 verses
(३. उपस्कारः)

प्रकृतिप्रत्ययानामुपसर्गोपग्रहागमलोपवर्णविकारविकरणादिरूपः संस्कारं उपस्कारः।

स च त्रिधा (१) प्रकृत्युपस्कारः, (२) प्रत्ययोपस्कारः, (३)उभयोपस्कारश्‍चेति।

ते पुनर्भूषण—समवायाऽ—ध्याहार—वैकृत—यत्‍न—प्रतियत्‍नभेदात् प्रत्येकं षट्प्रकारा भवन्ति। तत्र—

(१. प्रकृत्युपस्काराः —६)

१. प्रकृतेर्भूषणरूप निरर्थकोपसर्गस्वार्थक—वैकल्पिकादयः। यथा— अध्यागच्छति, पर्यागच्छति, प्रलम्बते, निखञ्जति इति; यावकः, षाङ्गुण्यम्, औपयिकम्, मानसम् इति; आली, मृदवी, कमण्डलूः, चञ्चूः इति।

२. समवायरूपाः सार्थकोपसर्गसन्क्यङादयः। यथा—आशास्ते, प्रतिष्ठते, सुमनायते, दुर्मनायते, इति। जुगुप्सते, गोपायते, ऋतीयते, कामयते इति। पुत्रीयति, पुत्रकाम्यति, श्येनायते, मुण्डयति इति।

३. अध्याहाररूपाः सहाभिधायकोपसर्गद्विर्वचनसुडागमादयः। यथा—अधीते, अध्येति, अनुरुध्यते, संग्रामयते इति; जञ्जप्यते, संपनीपद्यते, अरार्यते, उन्दिदिषति इति। उपस्कुरुते, अपप्तत्, आस्थत्, मध्वस्यति इति।

४. वैकृतरूपा वर्णव्यत्यय—विपर्ययापायादयः। यथा—निषिञ्चति, प्रणयति, यन्ति, उशन्ति इति; तरुः, सिंहः, सिकता, सक्‍‌तव इति; सन्ति, घ्‍नन्ति, द्यन्ति, समगत इति।

५. यत्‍नरूपा उपचय—प्रसव—संवृत्यादयः। यथा—यौति, मेद्यति,दीव्यति, निगूहति इति; कीर्यते, पूर्यते, सौधातकिः, स्वायम्भुवम् इति; आस्त, आस्ते, अवोचत्, घटयति इति।

Showing 1121 to 1130 of 1182 verses