६. प्रतियत्नरूपाः विशेषादेशविधिनिषेधादयः। यथा—आह, अघसत्, वध्यात्, अध्यगीष्महि इति; जप्यः, पित्र्यम्, सनम्, गव्यम्, नाव्यम् इति; तितउः, प्रउगम्, कोकूयते, कथयति इति।
१. प्रत्ययस्य भूषणरूपा इडसुगीकगादयः। यथा सहिता, वारिता भ्रुवै, भ्रूणाम् इति; देवासः, पारयामसि, तारिषत्, भवाति इति; तार्तीयीकम्, पीत्वाय, त्वयका, पचतकि इति।
२. समवायरूपाः स्यसिच्सीयुडादयः। यथा करिष्यति, अकरिष्यत्, वक्ता, ब्रवीतिं इति, अपाक्षीत् अपीपचत्, अशिषत्, अलिक्षत् इति; कृषीष्ट, कुर्यात्, कुर्वीत, करवामहै इति।
३. अध्याहाररूपाः प्रत्ययार्थविशेषकोपसर्गमप्तरबादयः। यथा— सुमनायते, दुर्मनायते, अभिमनायते, अभिषेणयति इति। कृत्रिमं सांराविणम्, व्यावहासी, कौञ्जायन्यः इति; पचतितरां, पचमानः, सर्वेषाम्, वृक्षाणामिति।
४. वैकृतरूपाः आदेश—सर्वादेशप्रत्ययादेशादयः। यथा—गार्ग्यायणः, चान्द्रमसायनिः, कौबेरकः, गौधेरः, कौलेयक इति, पवनः, पावकः, वृक्षस्यः, वृक्षैः इति; वेद, विवेद, विद्वान्, विद्धि इति।
५. यत्नरूपा लुग्लुम्पनविलुम्पनादयः। यथा—पचत्, जुहोति, पञ्चालाः, दधि इति। ददृशे, अद्राक्षीत्, कारकः, कामण्डलेय इति। अग्निचित्, शुभंयाः, मूलखाः, अश्वति' इति।
६. प्रतियत्नरूपाः विशेषादेशविधिनिषेधादयः। यथा—तस्थौ, वेद, प्रशाधि, जीवतात्, इति; उदपादि, राष्ट्रियः, आग्नेयः, स्त्रैणम् इति; सुभ्रूः, सुप्रेयसी, व्यतिहसन्ति, व्यतिगच्छन्ति इति।
१. उभयोर्भूषणरूपा युष्मत्प्रभृतिप्रयोगादयः। यथा— त्वं पचसि, युवां पचथः, यूयं पचथ, अहं पचामि, आवां पचावः, वयं पचामः, वायुर्वाति, देवो वर्षति, भज्यते शाखा स्वयमेव, अवकिरते हस्ती स्वयमेव, भूषयते कन्या स्वयमेव, ब्रूते कथा स्वयमेवेति।