अभ्याशीकरणार्थे समाहारशब्दे समिति समन्तादित्यभिविधौ वर्त्तते, आङाभिमुख्ये, हरतिर्देशान्तरप्रापणे इति।
नावश्यं हरतिर्देशान्तरप्रापणे एव वर्त्तते। किं तर्हि ? सादृश्येऽपि, मातुरनुहरति पितुरनुहरतीति।
अथवा— 'पञ्चग्रामी, षण्णगरीति नेदमित्येवावतिष्ठते, अवश्ये ह्यसौ ततः किञ्चिदाकाङ्क्षति, क्रियां गुणं वा। यदाकाङ्क्षति तदेकं, स समाहार इति।
अयं तर्हि भावसाधने सति दोषः, पञ्चपूली आनीयतामिति द्रव्यस्यानयनं न प्राप्नोति।
नैष दोषः। तद् यथा 'गौरनुबन्ध्यः' 'अजोऽग्नीषोमीय' इति जातौ चोदितायां तत्राऽसंभवादालम्भनप्रोक्षणविशसनादीनि द्रव्ये भवन्ति इहापि भावानयनस्यासंभवाद् द्रव्यस्थानयनं भविष्यति।
अव्यतिरेकाद् वा। न हि समूहिभ्यः समाहारलक्षणः समूहो व्यतिरिक्तो भवति। एवं तर्हि बहुमातङ्गमिति समाहारे एष दोषो भवति— 'अकारान्तोत्तरपदो द्विगुः स्त्रियां भाष्यत' इति पञ्चपूलीतिवद् ईकारान्तत्वं प्राप्नोति। न वाऽयं पात्रादिषु पठ्यते, येन 'चतुष्पात्र—त्रिभुवनादिवत् तन्निषेधो भविष्यति; नाप्याबन्तो येन 'पञ्चखट्वी पञ्चखट्वम्' इत्यादिवद् विकल्पोऽवकल्पेत।
ननु द्विगावपीकारो न दृश्यते यथा एकपुत्रः एकभिक्षेति।
किन्तर्हि? 'पूर्वकालैकसर्वजरत्पुराणे—(२.१.४९) त्यादिना कर्म्मधारयः। किं च भोः। संख्यापूर्वोऽपि द्विगुर्न भवति ?