५. सुबन्तनामभ्यां यथा— दधिसेक्, चर्मकारः, चर्मक्रीती, धनक्रीता, ब्राह्मणाच्छंसी, सरसिजम्' इति। अत्र 'कुगतिप्रादयः (२.२.१८), 'उपपदमतिङ्' (२.२.१९) इत्यत्र अतिङ्ग्रहणेनोभयसूत्रशेषतया व्याख्यायमानेन सुबित्येतस्य निवृत्तिः क्रियते; 'कर्त्तृकरणे कृता बहुलम् (२.१.३२), इत्यत्र च कर्त्तृकरणयोः समासविध /?/नादुत्तरपदस्य कृदन्ततायां लब्धायां कृद्ग्रहणादतिरिक्तात् तदन्तावस्थायामेव समासाभ्यनुज्ञाने सुपेत्येतदपि निवर्त्तते। ततश्च 'गतिकारकोपपदानां कृद्भिः सह समासवचनम् सुबुत्पत्तेः प्रागेव' भवतीत्याख्यातम्; बहुलग्रहणस्य चेष्टसिद्ध यर्थत्वात्।
स क्वचिन्नामभ्यां, क्वचित् सुबन्ताभ्याम्, क्वचिन्नामसुबन्ताभ्यां निश्चीयते। तत्र 'दधिसेक्' इत्यत्र उत्तरपदस्य, 'सात्पदाद्योः (८.३.१११) इति पदादिनिबन्धन— षत्व—प्रतिषेध—सिद्धये 'चर्मकार' इत्यत्र तु पूर्वपदस्य पदान्तलक्षणनलोपार्थं सुबन्तता क्रियते। चर्मक्रीतीत्यत्र पूर्वपदं नलोपार्थमेव सुबन्तम्, उत्तरपदं तु प्रातिपदिकं क्रियते; तेन 'क्रीतात् करणपूर्वात् (४.१.५०) अकारान्तात् इति ईकारः सिद्धो भवति। सुबुत्पत्तौ तु प्राक् सुबुत्पत्तेरन्तरङ्गलिङ्गसंस्करनिमित्तः टाबुत्पद्यमानः क्रीतस्य आकारान्तरङ्गंत्वात् ङीषं प्रतिबध्नीयात्, धनक्रीतेत्यत्र तु 'सा हि तस्य धनक्रीता प्राणेभ्योऽपि गरीयसी' इति शिष्टप्रयोगदर्शनादुत्तरपदस्य सुबुत्पत्तौ टाबुत्पत्तेराकारान्तत्वान्न ङीष उत्पत्ति।
ब्राह्मणाच्छंसी सरसिजमित्यत्र पूर्वपदयोः साक्षात् सुपः श्रवणम्; उत्तरपदयोस्तु प्रयोजनाभावाद् विभक्तेरनुत्पत्तिरिति।
६. नामभ्यां यथा— अश्वक्रीती, धनक्रीती, प्रवापिणी, माषवापिणी, असूर्यंपश्या, राजदाराः, कृतपूर्वी कटम् इति। अत्र अश्वक्रीती धनक्रीती इत्येतयोः प्राग्वदेव ङीषुत्पत्तौ विभक्त्युत्पत्तिमन्तरेणापि पञ्चकप्रातिपदिकार्थपक्षे करणत्वाऽविरोधः। प्रवापिणी माषवापिणी इत्यत्र तु प्राक् सुबुत्पत्तेः समासे प्रातिपादिकस्यान्तो नकार इति 'प्रातिपदिकान्तनुम्विभक्तिषु च' (८.४.११) इति णत्वं भवति, सुबन्ताभ्यां तु समासेऽन्तरङ्गत्वात् ङीबुत्पत्तौ ङीबत्र प्रातिपदिकान्तः, न नकार इति णत्वं न स्यात् यथा गर्गभगिनीति।
'असूर्यंपश्या' इत्यत्र नञ्सूर्ययोर्दृशिक्रियया संबन्धात् परस्परमसम्बन्धे सामर्थ्याभावाद् विभक्त्यभावः, अत्र हि सूर्यमपि न पश्यन्तीति नञ् सूर्यकर्मिकां दृशिक्रियामपेक्षते, न सूर्यसत्ताम्, 'असूर्यंललाटयोर्दृशितपोः' (३.२.३६) इति वचनादसामर्थ्येऽपि नाम्नोरेव समासो भवति। एतेन कृतपूर्वीत्यपि व्याख्यातम्। अत्रापि हि कृतं पूर्वं कटोऽनेनेति कृतशब्दस्य कटापेक्षायां पूर्वशब्देना— सम्बन्धादसामर्थ्येऽपि 'पूर्वादिनिः' (५.२.८६) 'सपूर्व्वाच्च' (५.२.८७) इति वचनात् कृतपूर्वयोस्सुबन्तयोरेव समासो भवतीति स्थितम्।
(समासविचारः) उपलक्षणं चेह सुबन्ताभ्यामित्यादिषु द्विवचनम्। तेन यथा द्वाभ्यां तथा त्रिभिर्बहुभिश्च समासो भवति। तत्र—
अव्ययीभावः कर्म्मधारयश्च द्वाभ्याम्।
यथा —अधिस्त्रि, शाकप्रति, पञ्चाम्राः, पुरुषव्याघ्र इति।
षष्ठीलक्षणः कालपरिमाणलक्षणश्च तत्पुरुषो द्वाभ्यां त्रिभिश्च।
यथा— राजगवीक्षीरम्, राजगोक्षीरम्, द्व्यहजातः, द्व्यह्नजातः इति। अत्र यदा राज्ञो गौः राजगवी तस्याः क्षीरमिति तदा द्वाभ्याम्, यदा तु राज्ञो गोः क्षीरं राजगोक्षीरमिति तदा त्रिभिः। तदुक्तं— 'राजगवीक्षीरे द्विसमासप्रसङ्गः, द्विषष्ठीभावात्; (२.१.१ वा. १४,१५), सिद्धं तु राजविशिष्टाया गोः क्षीरेणाभिसम्बन्धाद् राजगवीक्षीरम् राजगोक्षीरमिति च।