रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 61 to 70 of 103 verses
Verse 61
श्लाघ्यस्त्यागोऽपि वैदेह्याः पत्युः प्राग्वंशवासिनः । अनन्यजानेः सैवासीद्यस्माज्जाया हिरण्मयी ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): श्लाघ्य इति॥ वैदेह्यास्त्यागोऽपि श्लाघ्यो वर्ण्य एव। कुतः? यस्माद् प्रान्वंशः प्राचीनस्थूणो यज्ञनस्थूणो यज्ञशालाविशेषः। तद्वासिनः। नास्त्यन्या जाया यस्य तस्यानन्यजानेः। `जायाया निङ्` (पा.5।4।134) इति समासान्तो निङादेशः। पत्यू रामस्य हिरण्मयी सौवर्णी। `दाण्डिनायन-` (पा.6।4।174) आदिदग्रेण निपातेः। सा निजैव जाया पत्न्यासीत्। कविवाक्यमेतत् ॥

Verse 62
विघेरधिकसंभारस्ततः प्रववृते मखः । आसन्यत्र क्रियाविघ्ना राक्षसा एव रक्षिणः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): विधेरिति॥ ततो विधेः शास्त्रादधिकसंभारोऽतिरिच्यमानपरिकरो मखः प्रववृते प्रवृतः। यत्र मखे। विहन्यन्त एभिरिति विघ्नाः प्रत्यूहाः। `घञर्थे कविधानम्`(वा.2204)इति कः। क्रियाविघअना अनुष्ठानविघातका राक्षसा एव रक्षिणो रक्षका आसन् ॥

Verse 63
अथ प्राचेतसोपज्ञं रामायणमितस्ततः । मैथिलेयौ कुशलवौ जगतुर्गुरुचोदितौः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथ मैथिलेयौ मैथिलीतनयौ। `स्त्रीभ्यो ढक्` (पा.4।1।120) कुशलवौ गुरुणा वाल्मीकिना चोदितौ प्रेरितौ सन्तौ। प्राचेतसो वाल्मीकिः। उपज्ञायत इत्युपज्ञा। `आतश्चोपसर्गे` (पा.3।3।106) इति कर्मण्यङ्प्रत्ययः। प्राचेतसस्योपज्ञा। `आतश्चोपसर्गे` (पा.3।3।106) इति कर्मण्यङ्गप्रत्ययः। प्राचेतसस्योपज्ञा प्राचेतसोपज्ञम्। प्राचेतसेनादौ ज्ञातमित्यर्थः। `उपज्ञा ज्ञानमाद्यं स्यात्` इत्यमरः (अ.को.2|7|15)। `उपज्ञोपक्रमं तदाद्याचिख्यासायाम्` (पा.2।4।21) इति नपुंसकत्वम्। अय्यते ज्ञायतेऽनेनेत्ययनम्। रामस्यायनं चरितं रामायणं रामायणाखअयं काव्यम्। `पूर्वपदात्संज्ञायामगः` (पा.8।4।3) इति णत्वम्। उत्तरायणमितिवत्। इतस्ततोजगतुः। गायतेर्लिट् ॥

Verse 64
वृत्तं रामस्य वाल्मीकेः कृतिस्तौ किंनरस्वनौ । किं तद्येन मनो हर्तुमलं स्यातां न श्रृण्वताम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): वृत्तमिति॥ रामस्य वृत्तं वर्ण्यम्। वस्त्विति शेषः। वाल्मीकेः कृतिः काव्यम्। गेयमिति शेषः। तौ कुशलवौ किंनरस्वनौ किंनरकण्ठौ गायकौ। पुनरिति शेषः। अत एव तत्किं येन निमित्तेन तौ शृण्वतां मनो हर्तुमलं शक्तौ न स्याताम्। सर्वं सरसमित्यर्थः ॥

Verse 65
रूपे गीते च माधुर्यं तयोस्तज्ज्ञैर्निवेदितम् । ददर्श सानुजो रामः शुश्राव च कुतूहली ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): रूप इति॥ ते जानन्तीति तज्ज्ञाः, तैस्तज्ज्ञैरभिज्ञैर्निवेदितं तयोः कुशलवयो रूपे आकारे गीते च माधुर्यं रामणीयकं सानुजो रामाः कुतूहली सानन्दः सन्, यथासंख्यं ददर्श शुश्राव च ॥

Verse 66
तद्गीतश्रवणैकाग्रा संसदश्रुमुखी बभौ । हिमनिष्यन्दिनी प्रातर्निर्वातेव वनस्थली ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तदिति॥ तयोर्गीतश्रवण एकाग्राऽऽसक्ता। अश्रुमुखी। आनन्दादिति भावः। संसत् सभा प्रातर्हिमनिष्यन्दिनी निर्वाता वातरहिता वनस्थलीव। बभौ शुशुभे। आनन्दपारवश्यान्निष्पन्दमास्त इत्यर्थः ॥

Verse 67
वयोवेषविसंवादि रामस्य च तयोस्तदा । जनता प्रेक्ष्य सादृश्यं नाक्षिकम्पं व्यतिष्ठत ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): वय इति॥ जनता जनानां समूहः। `ग्रामजनबन्धुसहायेभ्यस्तल्` (पा.4।3।7) इति तल्प्रत्ययः। वयोवेषाभ्यामेव विसंवादि विलक्षणं तदा तयोः कुशलवयो रामस्य चच सादृश्यं प्रेक्ष्य। नास्त्यक्षिकम्पो यस्मिन्कर्मणि तद्यथा तथा, नञर्थस्य नशब्दस्य बहुव्रीहिः। व्यतिष्ठतातिष्ठत्। `समवप्रविभ्यः स्थः` (पा.1।3।22) इत्यात्मनेपदम्। विस्मयादनिमिषमद्राक्षीदित्यर्थः ॥

Verse 68
उभयोर्न तथा लोकः प्रावीण्येन विसिष्मिपे । नृपतेः प्रीतिदानेषु वीतस्पृहतया यथा ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): उभयोरिति॥ लोको जन उभयोः कुमारयोः प्राविण्येन नैपुण्येन तथा न विसिष्मिये न विस्मितवान्, यथा नृपतेः प्रीतिदानेषु वीतस्पृहतया नैःस्पृह्येण विसिष्मिये ॥

Verse 69
गेये को नु विनेता वां कस्य चेयं कृतिः कवेः । इति राज्ञा स्वयं पृष्टौ तौ वाल्मीकिमशंसताम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): गेय इति॥ गेये गीते को नु वां युवयोर्विनेता शिक्षकः। `नु`शब्दः प्रश्ने। `नु पृच्छायां वितर्के च` इत्यमरः। इयं च कस्य कवेः कृतिरिति राज्ञा स्वयं पृष्टौ तौ कुशलवौ वाल्मीकिमशंसतामुक्तवन्तौ। विनेतारं कविं चेत्यर्थः। `गेये केन विनीतौ वाम्` इति पाठे `वा` इति युष्मदर्थप्रतिपादकमव्ययं द्रष्टव्यम्। तथा चायमर्थः।-तेन पुंसा वां युवां गेये गीतविषये विनीतौ शिक्षितौ? कर्मणि निष्ठाप्रत्ययः ॥

Verse 70
अथ सावरजो रामः प्राचेतसमुपेयिवान् । ऊरूकृत्यात्मनो देहं राज्यमस्मै न्यवेदयत् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथध सावरजो रामः प्राचेतसं वाल्मीकिमुपेयिवान् प्राप्तः सन्। देहमात्मानं ऊरीकृत्य। आत्मानं स्थापयित्वेत्यर्थः। राज्यमस्मै प्राचेतसाय न्यवेदयत् समर्पितवान् ॥

Showing 61 to 70 of 103 verses