स तावाख्याय रामाय मैथिलेयौ तदात्मजौ । कविः कारुणिको वव्रे सीतायाः संपरिग्रहम् ॥
Metre: अनुष्टुप्
तात! शुद्धा समक्षं नः स्नुषा ते जातवेदसि । दौरात्म्याद्रक्षसस्तां तु नात्रत्याः श्रद्वधुः प्रजाः ॥
Metre: अनुष्टुप्
ताः स्वचारित्रमुद्दिश्य प्रत्याययतु मैथिली । ततः पुत्रवतीमेनां प्रतिपत्स्ये त्वदाज्ञया ॥
Metre: अनुष्टुप्
इति प्रतिश्रुते राज्ञा जानकीमाश्रमान्मुनिः । शिष्यैरानाययामास स्वसिद्धिं नियमैरिव ॥
Metre: अनुष्टुप्
अन्येद्युरथ काकुत्स्थः संनिपात्य पुरौकसः । कविमाह्वाययामास प्रस्तुतप्रतिपत्तये ॥
Metre: अनुष्टुप्
स्वरसंस्कारवत्यासौ पुत्राभ्यामथ सीतया । क्रचेवोदर्चिषं सूर्यं रामं मुनिरुपस्थितः ॥
Metre: अनुष्टुप्
काषायपरिवीतेन स्वपदार्पितचक्षुषा । अन्वमीयत शुद्धेति शान्तेन वपुषैव सा ॥
Metre: अनुष्टुप्
जनास्तदालोकपथात्प्रतिसंहृतचक्षुषः । तस्थुस्तेऽवाङ्मुखाः सर्वे फलिता इव शालयः ॥
Metre: अनुष्टुप्
तां दृष्टिविषये भर्तुर्मुनिरास्थितविष्टरः । कुरु निःसंशयं वत्से! स्ववृत्ते लोकमित्यशात् ॥
Metre: अनुष्टुप्
अथ वाल्मीकिशिष्येण पुण्यमावर्जितं पयः । आचम्योदीरयामास सीता सत्यां सरस्वतीम् ॥
Metre: अनुष्टुप्