रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 71 to 80 of 103 verses
Verse 71
स तावाख्याय रामाय मैथिलेयौ तदात्मजौ । कविः कारुणिको वव्रे सीतायाः संपरिग्रहम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ करुणा प्रयोजनमस्य कारुणिको दयासुः। `प्रयोजनम्` (पा.5।1।109) इति ठञ्। `स्यादृयालुः कारुणिकः` इत्यमरः। स कवी रामाय तौ मैथिलेयौ तदात्मजौ रामसुतावाख्याय सीतायाः संपरिग्रहं स्वीकारं वव्रे ययाचे ॥

Verse 72
तात! शुद्धा समक्षं नः स्नुषा ते जातवेदसि । दौरात्म्याद्रक्षसस्तां तु नात्रत्याः श्रद्वधुः प्रजाः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तातेति॥ हे तात! ते स्नुषा सीता नोऽस्माकम्। अक्ष्णोः समीपं समक्षम्। `अव्ययीभावे शरत्प्रभृतिभ्यः` (पा.5।4।107) इति समासान्तष्टच्। जातवेदसि वह्नौ शुद्धा। नास्माकमविश्वास इत्यर्थः। किंतु रक्षसो रावणस्य दौरात्म्यादत्रत्याः प्रजास्तां न श्रद्वधुर्न विशश्वसुः ॥

Verse 73
ताः स्वचारित्रमुद्दिश्य प्रत्याययतु मैथिली । ततः पुत्रवतीमेनां प्रतिपत्स्ये त्वदाज्ञया ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): ता इति॥ मैथिली स्वचारित्रमुद्दिश्य ताः प्रजाः प्रत्याययतु विश्वासयतु। विश्वासस्य बुद्धिरूपत्वात् `णौ गमिरबोधने` (पा.2।4।46) इति इणो गम्यादेशो नास्ति। ततोऽनन्तरं पुत्रवतीमेनां सीतां त्वदाज्ञया प्रतिपत्स्ये स्वीकरिष्ये ॥

Verse 74
इति प्रतिश्रुते राज्ञा जानकीमाश्रमान्मुनिः । शिष्यैरानाययामास स्वसिद्धिं नियमैरिव ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): इतीति॥ राज्ञेति प्रतिश्रुते प्रतिज्ञाते सति मुनिराश्रमाज्जानकीं शिष्यैः प्रयोज्यैः स्वसिद्धिं स्वार्थसिद्धिं नियमैस्तपोभिरिव। आनाययामास ॥

Verse 75
अन्येद्युरथ काकुत्स्थः संनिपात्य पुरौकसः । कविमाह्वाययामास प्रस्तुतप्रतिपत्तये ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): अन्येद्युरिति॥ अथ काकुत्स्थो रामः। अन्येद्युरन्यस्मिन्नहनि प्रस्तुतप्रतिपत्तये प्रकृतकार्यानुसंधानाय पुरौकसः पौरान् संनिपात्य मेलयित्वा कविं वाल्मीकिम्। आह्वाययामासाकारयामास ॥

Verse 76
स्वरसंस्कारवत्यासौ पुत्राभ्यामथ सीतया । क्रचेवोदर्चिषं सूर्यं रामं मुनिरुपस्थितः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): स्वरेति॥ अथ स्वर उदात्तादिः। संस्कारः शब्दशुद्धिः। तद्वत्या ऋचा सावित्र्योदर्चिषं सूर्यमिव। पुत्राभ्यामुपलक्षितया सीतया करणेनोदर्चिषं राममसौ मुनिरुपस्थित उपतस्थे ॥

Verse 77
काषायपरिवीतेन स्वपदार्पितचक्षुषा । अन्वमीयत शुद्धेति शान्तेन वपुषैव सा ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): काषायेति॥ कषायेण रक्तं काषायम्। `तेन रक्तं रागात्` (पा.4।2।1) इत्यण्। तेन परिवीतेन संवृतेन स्वपदार्पितचक्षुषा शान्तेन प्रसन्नेन वपुषैव सा सीता शुद्धा साध्वीत्यन्वमीयतानुमिता ॥

Verse 78
जनास्तदालोकपथात्प्रतिसंहृतचक्षुषः । तस्थुस्तेऽवाङ्मुखाः सर्वे फलिता इव शालयः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): जना इति॥ तस्याः सीतायाः कर्मण आलोकपथाद्दर्शनमार्गात् प्रतिसंहृतचक्षुषो निवर्तितदृष्टयः सर्वे जनाः। फलिताः शालय इव अवाङ्मुखा अवनतमुखास्तस्थुः ॥

Verse 79
तां दृष्टिविषये भर्तुर्मुनिरास्थितविष्टरः । कुरु निःसंशयं वत्से! स्ववृत्ते लोकमित्यशात् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तामिति॥ आस्थितविष्टरोऽधिष्ठितासनो मुनिः। हे वत्से! भर्तुर्दृष्टिविषये समक्षं स्ववृत्ते स्वचरिते विषये लोकं निःसंशयं कुरु। इति तां सीतामशाच्छास्ति स्म ॥

Verse 80
अथ वाल्मीकिशिष्येण पुण्यमावर्जितं पयः । आचम्योदीरयामास सीता सत्यां सरस्वतीम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथ वाल्मीकिशिष्येणावर्जितं दत्तं पुण्यं पय आचम्यसीता सत्यां सरस्वतीं वाचमुदीरयामासोञ्चारयामास ॥