इत्यारोपितपुत्रास्ते जननीनां जनेश्वराः । भर्तृलोकप्रपन्नानां निवापान्विदधुः क्रमात् ॥
Metre: अनुष्टुप्
उपेत्य मुनिवेषोऽथ कालः प्रोवाच राघवम् । रहःसंवादिनौ पश्येदावां यस्तं त्यजेरिति ॥
Metre: अनुष्टुप्
तथेति प्रतिपन्नाय विवृतात्मा नृपाय सः । आचख्यौ दिवमध्यास्व शासनात्परमेष्ठिनः ॥
Metre: अनुष्टुप्
विद्वानपि तयोर्द्वाःस्थः समयं लक्ष्मणोऽभिनत् । भीतो दुर्वाससः शापाद्रामसंदर्शनार्थिनः ॥
Metre: अनुष्टुप्
स गत्वा सरयूतीरं देहत्यागेन योगवित् । चकारावितथां भ्रातुः प्रतिज्ञां पूर्वजन्मनः ॥
Metre: अनुष्टुप्
तस्मिन्नात्मचतुर्भागे प्राङ्गकमधितस्थुषि । राघवः शिथिलं तस्थौ भुवि धर्मस्त्रिपादिव ॥
Metre: अनुष्टुप्
स निवेश्य कुशावत्यां रिपुनागाङ्गुशं कुशम् । शरावत्यां सतां सूक्तैर्जनिताश्रुलवं लवम् ॥
Metre: अनुष्टुप्
उदक्प्रतस्थे स्थिरधीः सानुजोऽग्निपुरःसरः । अन्वितः पतिवात्सल्याद्गृहवर्जमयोध्यया ॥
Metre: अनुष्टुप्
जगृहुस्तस्य चित्तज्ञाः पदवीं हरिराक्षसाः । कदम्बमुकुलस्थूलैरभिवृष्टां प्रजाश्रुभिः ॥
Metre: अनुष्टुप्
उपस्थितविमानेन तेन भक्तानुकम्पिना । चक्रे त्रिदिवनिःश्रेणिः सरयूरनुयायिनाम् ॥
Metre: अनुष्टुप्