रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 81 to 90 of 103 verses
Verse 81
वाङ्मनकर्मभिः पत्यौ व्यभिचारो यथा न मे । तथा विश्वंभरे देवि! मामन्तर्धातुमर्हसि ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): वाङ्मन इति॥ वाङ्मनःकर्मभिः पत्यौ विषये मे व्यभिचारः स्खालित्यं न यथा नास्ति यदि तथा तर्हि। विश्वं बिभर्तीति विश्वंभरा भूमिः। `संज्ञायां भृतॄ-` (पा.3।2।46) इत्यादिना खच्प्रत्ययः। `अरुर्द्विषत्-` (पा.6।3।67) इत्यादिना मुमागमः। हे विशअवंभरे देवि! मामन्तर्धातुं गर्भे वासयितुमर्हसि ॥

Verse 82
एवमुक्ते तया साध्व्या रन्ध्रात्सद्योभवाद्भुवः । शातह्रदमिव ज्योतिः प्रभामण्डलमुद्ययौ ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): एवमिति॥ साध्व्या पतिव्रतया तया सीतयैवमुक्ते सति सद्योभवाद्भुवो रन्ध्राच्छातह्रदं वैद्युतं ज्योतिरिव प्रभामण्डलमुद्ययौ ॥

Verse 83
तत्र नागफणोत्क्षिप्तसिंहासननिषेदुषी । समुद्ररशना साक्षात्प्रादुरासीद्वसुंधरा ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तत्रेति॥ तत्र प्रभामण्डले नागफणोत्क्षिप्ते सिंहासने निषेदुष्यासीना समुद्ररशना समुद्रमेखला साक्षात्। वसूनि धारयतीति वसुंधरा भूमिः। `खचि ह्रस्वः` (पा.6।4।94) इति ह्रस्वः। प्रादुरासीत् ॥

Verse 84
सा सीतामङ्कमारोप्य भर्तृप्रणिहितेक्षणाम् । मा मेतिव्याहरत्येव तस्मिन्पालातमभ्यगात् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): सेति॥ सा वसुंधरा भर्तरि प्रणिहितेक्षणां दत्तदृष्टिं सीतामङ्कमारोप्य तस्मिन्भर्तरि रामे मा मेति मा हरेति व्याहरति वदत्येव। व्याहरन्तमनादृत्येत्यर्थः। `षष्ठी चानादरे` (पा.2।3।38) इति सप्तमी। पातालमभ्यगात् ॥

Verse 85
धरायां तस्य संरम्भं सीताप्रत्यर्पणैषिणः । गुरुर्विधिबलापेक्षी शमयामास धन्विनः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): धरायामिति॥ सीताप्रत्यर्पणमिच्छतीति तथोक्तस्य धन्विन आत्तधनुषस्तस्य रामस्य धरायां विषये संरम्भं विधिबलापेक्षी दैवशक्तिदर्शीं गुरुर्ब्रह्मा शमयामास। अवश्यंभावी विधिरिति भावः ॥

Verse 86
ऋषीन्विसृज्य यज्ञान्ते सुहृदश्च पुरस्कृतान् । रामः सीतागतं स्नेहं निदधे तदपत्ययोः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): ऋषीनिति॥ रामो यज्ञान्ते पुरस्कृतान्पूजितान्। ऋषीन्सुहृदश्च विसृज्य सीतागतं स्नेहं तदपत्ययोः कुशलवयोर्निदधे ॥

Verse 87
युधाजितश्च संदेशात्स देशं सिन्धुनामकम् । ददौ दत्तप्रभावाय भरताय भृतप्रजः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): युधाजित इति॥ किंच, भृतप्रजः स रामो युधाजितो भरतमातुलस्य संदेशात्सिन्धुनामकं देशं दत्तप्रभावाय दत्तैश्वर्याय। रामेणेति शेषः। भरताय ददौ ॥

Verse 88
भरतस्तत्र गन्धर्वान्युधि निर्जित्य केवलम् । आतोद्यं ग्राहयामास समत्याजयदायुधम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): भरत इति॥ तत्र सिन्धुदेशे भरतोऽपि युधि गन्धर्वान्निर्जित्य केवलमेकमातोद्यं वीणाम्। `ततं वीणादिकं वाद्यमानद्धं मुरजादिकम्। वंशादिकं तु सुषिरं कांस्यतालादिकं घनम्। चतुर्विधमिदं वाद्यं वादित्रातोद्यनामकम्।` इत्यमरः (अ.को.1|7|5)। ग्राहयामास। आयुधं समत्याजयत् त्याजितवान्। ग्रहित्यज्योर्ण्यन्तयोर्द्विकर्मकत्वं नित्यमित्यनुसंधेयम् ॥

Verse 89
स तक्षपुष्कलौ पुत्रौ राजधान्योस्तदाख्ययोः । अभिषिच्याभिषेकार्हौ रामान्तिकमगात्पुनः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ स भरतः। अभिषेकार्हौ तक्षपुष्कलौ नाम पुत्रौ तदाख्ययोः। तक्षपुष्कलाख्ययोरित्यर्थः। पुष्कलं पुष्कलावत्यां तक्षं तक्षशिलायामिति राजधान्योर्नगर्योरभिषिच्य पुना रामान्तिकमगात् ॥

Verse 90
अङ्गदं चन्द्रकेतुं च लक्ष्मणोऽप्यात्मसंभवौ । शासनाद्रघुनाथस्य चक्रे कारापथेश्वरौ ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): अङ्गदमिति॥ लक्ष्मणोऽपि रघुनाथस्य रामस्य शासनादङ्गदं चन्द्रकेतुं च तदाख्यावात्मसंभवौ पुत्रौ। कारापथो नाम देशः। तस्येश्वरौ चक्रे ॥