रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 51 to 60 of 103 verses
Verse 51
तपस्यनधइकारित्वात्प्रजानां तमघावहम् । शीर्षच्छेद्यं परिच्छिद्य नियन्ता शस्त्रमाददे ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तपसीति॥ तपस्यनधिकारित्वात्प्रजानामघावहं दुःखावहं तं शूद्रं शीर्षच्छेद्यम्। `शीर्षच्छेदाद्यञ्च` (पा.5।1।65) इति यत्प्रत्ययः। परिच्छिद्य निश्चित्य नियन्ता रक्षको रामः शस्त्रमाददे जग्राह ॥

Verse 52
स तद्वक्त्रं हिममक्लिष्टकिञ्जल्कमिव पङ्कजम् । ज्योतिष्कणाहतश्मश्रु कण्ठनालादपातयत् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ स रामो ज्योतिष्कणैः स्फुलोङ्गैराहतानि दग्धानि श्मश्रूणि यस्य तत्तस्य वक्त्रम्। हिमक्लिष्टकिञ्जल्कं पङ्कजमिव। कण्ठ एव नालं तस्मादपातयत् ॥

Verse 53
कृतदण्डः स्वयं राज्ञा लेभे शूद्रः सतां गतिम् । तपसा दुश्चरेणापि न स्वमार्गविलङ्घिना ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): कृतेति॥ शूद्रः शम्बुको राज्ञा स्वयं कृतदण्डः कृतशिक्षः सन्। सतां गतिं लेभे। दुश्चरेणापि स्वमार्गविलङ्घिना। अनधिकारदुष्टेनेत्यर्थः। तपसा न लेभे। अत्र मनुः(8।3।18) `राजभिः कृतदण्डास्तु कृत्वा पापानि मानवाः। निर्मलाः स्वर्गमायान्ति सन्तः मुकृतिनो यथा ॥` इति॥

Verse 54
रघुनाथोऽप्यगस्त्येन मार्गसंदर्शितात्मना । महौजसा संयुयुजे शरत्काल इवेन्दुना ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): रघुनाथ इति॥ रघुनाथोऽपि मार्गसंदर्शितात्मना महौजसाऽगस्त्येन। इन्दुना शरत्काल इव संयुयुजे संगतः। इन्दावपि विशेषणं योज्यम्‌। `रघुनाथ` इत्यत्र क्षुभ्रादित्वाण्णत्वाभावः ॥

Verse 55
कुम्भयोनिरलंकारं तस्मै दिव्यपरिग्रहम् । ददौ दत्तं समुद्रेण पीतेनेवात्मनिष्क्रयम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): कुम्भेति॥ कुम्भयोनिरगस्त्यः पीतेन समुद्रेणात्मनिष्क्रयमिवात्ममोचनमूल्यमिव दत्तम्। अत एव परिगृह्यत इति व्युत्पत्त्या दिव्यपरिग्रहः। दिव्यानां परिग्राह्य इत्यर्थः। तमलंकारं तस्मै रामाय ददौ ॥

Verse 56
तं दधन्मैथिलीकण्ठनिर्व्यापारेण बाहुना । पश्चान्निववृते रामः प्राक्परासुर्द्विजात्मजः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तमिति॥ मैथिलीकण्ठनिर्व्यापारेण याहुना तमलंकारं दधद्रामः पश्चान्निववृते निवृत्तः। परासुर्म-तो द्विजात्मजः प्राक् रामात्पूर्वं निववृते ॥

Verse 57
तस्य पूर्वोदितां निन्दां द्विजः पुत्रसमागतः । स्तुत्या निवर्तयामास त्रातुर्वैवस्वतादपि ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तस्येति॥ पुत्रसमागतः पुत्रेण संगतो द्विजो वैधस्वतादन्तकादपि त्रात् रक्षकस्य। `भीत्रार्थानां भवहेतुः` (पा.1।4।25) इत्यपादानात्पञ्चमी। तस्य रामस्य पूर्वोदितां पूर्वोक्तां निन्दां स्तुत्या निवर्तयामास ॥

Verse 58
तमध्वराय मुक्ताश्वं रक्षः कपिनरेश्वराः । मेघाः सस्यमिवाम्भोभिरभ्यवर्षन्नुपायनैः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तमिति॥ अध्वरायाश्वमेधाय मुक्ताश्वं तं रामं रक्षःकपिनरेश्चराः सुग्रीविभीषणादयो राजानश्च। मेघा अम्भिभिः सस्यमिव। उपायनैरभ्यवर्षन् ॥

Verse 59
दिग्भ्यो निमन्त्रिताशअचैनमभिजग्मुर्महर्षयः । न भौमान्येव धिष्ण्यानि हित्वा ज्योतिर्मयान्यपि ॥
Metre: उपगीति
सञ्जीविनीटीका (मल्लिनाथः): दिग्भ्य इति॥ निमन्त्रिता आहूता महर्षयश्च भूम्याः संबन्धीनि भौमानिधिष्ण्यानि स्थानान्येव न। `धिष्ण्यं स्थाने गृहे भेऽग्नौ` इत्यमरः (अ.को.3|3|163)। किंतु ज्योतिर्मयानि नक्षत्ररूपाणि धिष्ण्यान्यपि हित्वा दिग्भ्य एनं राममभिजग्मुः ॥

Verse 60
उपशल्यनिविष्टैस्तैश्चतुर्द्वारमुखी बभौ । अयोध्या सृष्टलोकेव सद्यः पैतामही तनुः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): उपेति॥ चत्वारि द्वाराण्येव मुखानि यस्याः सा चतुर्द्वारमुख्ययोध्या। उपशल्येषु ग्रामान्तेषु निविष्टैः। `ग्रामान्त उपशल्यं स्यात्` इत्यमरः। तैर्महर्षिभिः। सद्यः सृष्टलोका पितामहस्येयं पैतामही तनुर्मूर्तिरिव। बभौ ॥

Showing 51 to 60 of 103 verses