रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 31 to 40 of 103 verses
Verse 31
सखा दशरथस्यापि जनकस्य च मन्त्रकृत् । संचस्कारोभयप्रीत्या मैथिलेयौ यथाविधइ ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): सखेति॥ दशरथस्य जनकस्य च सखा मन्त्रकृन्मन्त्रद्रष्टा स वाल्मीकिरपि। `सुकर्मपापमन्त्रपुण्येषु कृञः` (पा.3।2।89) इति क्विप्। उभयोर्दशरथजनकयोः प्रीत्या स्नेहेन मैथिलेयौ मैथिलीपुत्रौ यथाविधि यथाशास्त्रं संचस्कार संस्कृतवान्। जातकर्मादिभिरिति शेषः ॥

Verse 32
स तौ कुशलवोन्मृष्टगर्भक्लेदौ तदाख्यया । कविः कुळलवावेव चकार किल नामतः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ स कविर्वाल्मीकिः कुशैर्दर्भैर्लवैर्गोपुच्छलोमभिः। `लवो लवणकिञ्जल्कपक्ष्मगोपुच्छलोमसु` इति वैजयन्ती। उन्मृष्टो गर्भक्लेदो गर्भोपद्रवो ययोस्तौ कुशलवोन्मृष्टगर्भक्लेदौ तौ मैथिलेयौ तेषां कुशानां च लवानां चाख्यया नामतो नाम्ना यथासंख्यं कुशलवावेव चकार किल। कुशोन्मृष्टः कुशः। लवोन्मृष्टो लवः ॥

Verse 33
साङ्गं च वेदमध्याप्य किंचिदुत्क्रान्तशैशवौ । स्वकृतिं गापयामास कविप्रथमपद्धतिम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): साङ्गमिति॥ किंचिदुत्क्रान्तशैशवावतिक्रान्तबाल्यौ तौ साङ्गं च वेदमध्याप्य कवीनां प्रथमपद्धतिम्। कविताबीजमित्यर्थः। स्वकृतिं काव्यं रामायणाख्यं गापयामास। गापयतेर्लिट्। शब्दकर्मत्वात् `गतिबुद्धि-` (पा.1।4।52) इत्यादिना द्विकर्मकत्वम् ॥

Verse 34
रामस्य मधुरं वृत्तं गायन्तौ मातुरग्रतः । तद्वियोगव्यथां किंचिच्छिथिलीचक्रतुः सुतौ ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): रामस्येति॥ तौ सुतौ रामस्य वृत्तं मातुरग्रतो मधुरं गायन्तौ तद्वियोगव्यथां रामविरहवेदनां किंचिच्छिथिलीचक्रतुः ॥

Verse 35
इतरेऽपि रघोर्वंश्यास्त्रयस्त्रेताग्नितेजसः । तद्योगात्पतिवत्नीषु पत्नीष्वासन्द्विसूनवः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): इतरेऽपीति॥ रघोर्वंश्या वंशे भवाः। त्रेतेत्यग्नयस्त्रेताग्नयः। तेषां तेज इव तेजो येषां ते त्रेताग्नितेजसः। इतरे रामादन्ये त्रयो भरतादयोऽपि तद्योगात्तेषां योगाद्भरतादिसंबन्धात्पतिवत्नीषु भर्तृमतीषु जीवत्पतिकासु। ख्यातिमतीष्वित्यर्थः। `पतिव्रत्नी सभर्तृका` इत्यमरः। `अन्तर्वत्पतिवतोर्नुक्` (पा.4।1।32) इति ङीप्प्रत्ययो नुगागमश्च। पत्नीषु द्विसूनव आसन्। द्वौ द्वौ सूनू येषां ते द्विसूनव इति विग्रहः। क्वचित्संख्याशब्दस्य वृत्तिविषये वीप्सार्थत्वं सप्तपर्णादिवत्॥

Verse 36
शत्रुघातिनि शत्रुघ्नः सुबाहौ च बहुश्रुते । मथुराविदिशे सून्वोर्निदधे पूर्वजोत्सुकः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): शत्रुघातिनीति॥ पूर्वजोत्सुको ज्येष्ठप्रियः शत्रुघ्नो बहुश्रुते शत्रुघातिनि सुबाहौ च तन्नामकयोः सून्वोर्मथुरा च विदिशा च ते नगर्यौ निदधे। निधाय गत इत्यर्थः॥

Verse 37
भूयस्तपोव्ययो मा भूद्वाल्मीकेरिति सोऽत्यगात् । मैथिलीतनयोद्गीतनिःस्पन्दमृगमाश्रमम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): भूय इति॥ स शत्रुघ्नो मैथिलीतनययोः कुश-लवयोरुद्गीतेन निःस्पन्दमृगं गीतप्रियतया निश्चलहरिणं वाल्मीकेराश्रमम्। भूयः पुनरपि तपोव्ययः संविधानकरणार्थं तपोहानिर्मा भूदिति हेतोः। अत्यगात्। अतिक्रम्य गत इत्यर्थः ॥

Verse 38
वशी विवेश चायोध्यां रथ्यासंस्कारशोभिनीम् । लवणस्य वधात्पौरैरीक्षितोऽत्यन्तगौरवम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): वशीति॥ वशी स लवणस्य वधाद्धेतोः पौरैः पौरजनैरत्यन्तं गौरवं यस्मिन्कर्मणि तत्तथेक्षितः सन्। रथ्यासंस्कारैस्तोरणादिभिः शोभते या तामयोध्यां विवेश च ॥

Verse 39
स ददर्श सभामध्ये सभासद्भिरुपस्थितम् । रामं सीतापरित्यागादसामान्यपतिं भुवः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ स शत्रुघ्नः सभामध्ये सभासद्भिः सभ्यैरुपस्थितं सेवितं सीतापरित्यागाद्भुवोऽसामान्यपतिमसाधारणपतिं रामं ददर्श ॥

Verse 40
तमभ्यनन्दत्प्रणतं लवणान्तकमग्रजः । कालनेमिवधात्प्रीतस्तुराषाडिव शार्ङ्गिणम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तमिति॥ अग्रजो रामो लवणस्यान्तकं हन्तारं प्रणतं तं शत्रुघ्नम्। कालनेमिर्नाम राक्षसः। तस्य वधात्प्रीतः। तुरं वेगं सहत इति तुराषाडिन्द्रः । `छन्दसि सहः` (पा.3।2।63) इति ण्वि प्रत्यया। यद्वा, -सहतेणिंचि कृते साहयतेः क्विप्। `अन्येषामपि दृश्यते` (पा.6।3।137) इति पूर्वपदस्य दीर्घः। `सहेः साडः सः` (पा.8।3।56) इति षत्वम्। शार्ङ्गिणमुपेन्द्रमिव। अभ्यनन्दत्॥