सखा दशरथस्यापि जनकस्य च मन्त्रकृत् । संचस्कारोभयप्रीत्या मैथिलेयौ यथाविधइ ॥
Metre: अनुष्टुप्
स तौ कुशलवोन्मृष्टगर्भक्लेदौ तदाख्यया । कविः कुळलवावेव चकार किल नामतः ॥
Metre: अनुष्टुप्
साङ्गं च वेदमध्याप्य किंचिदुत्क्रान्तशैशवौ । स्वकृतिं गापयामास कविप्रथमपद्धतिम् ॥
Metre: अनुष्टुप्
रामस्य मधुरं वृत्तं गायन्तौ मातुरग्रतः । तद्वियोगव्यथां किंचिच्छिथिलीचक्रतुः सुतौ ॥
Metre: अनुष्टुप्
इतरेऽपि रघोर्वंश्यास्त्रयस्त्रेताग्नितेजसः । तद्योगात्पतिवत्नीषु पत्नीष्वासन्द्विसूनवः ॥
Metre: अनुष्टुप्
शत्रुघातिनि शत्रुघ्नः सुबाहौ च बहुश्रुते । मथुराविदिशे सून्वोर्निदधे पूर्वजोत्सुकः ॥
Metre: अनुष्टुप्
भूयस्तपोव्ययो मा भूद्वाल्मीकेरिति सोऽत्यगात् । मैथिलीतनयोद्गीतनिःस्पन्दमृगमाश्रमम् ॥
Metre: अनुष्टुप्
वशी विवेश चायोध्यां रथ्यासंस्कारशोभिनीम् । लवणस्य वधात्पौरैरीक्षितोऽत्यन्तगौरवम् ॥
Metre: अनुष्टुप्
स ददर्श सभामध्ये सभासद्भिरुपस्थितम् । रामं सीतापरित्यागादसामान्यपतिं भुवः ॥
Metre: अनुष्टुप्
तमभ्यनन्दत्प्रणतं लवणान्तकमग्रजः । कालनेमिवधात्प्रीतस्तुराषाडिव शार्ङ्गिणम् ॥
Metre: अनुष्टुप्