रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 31 to 40 of 87 verses
Verse 31
स किंवदन्तीं वदतां पुरोगः स्ववृत्तमुद्दिश्य विशुद्धवृत्तः । स र्पाधिराजोरुभुजोऽपसर्पं पप्रच्छ भद्रं विजितारिभद्रः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ वदतां वाग्मिनां पुरोगः श्रेष्ठो विशुद्धवृत्तः। सर्पाधिराजः शेषः तद्वदुरू भुजौ यस्य स विजितारिभद्रो विजितारिश्रेष्ठः स रामः स्ववृत्तमुद्दिश्य भद्रं भद्रनामकमपसर्पं चरं किंवदन्तीं जनवादं पप्रच्छ। `अपसर्पश्चरः स्पशः`इति, `किंवदन्ती जनश्रुतिः`इति चामरः॥

Verse 32
निर्बन्धपृष्टः स जगाद सर्वं स्तुवन्ति पौराश्चरितं त्वदीयम् । अन्यत्र रक्षोभवनोषितायाः परिग्रहान्मानवदेव! देव्याः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): निर्बन्धेति॥ निर्बन्धेनाग्रहेण पृष्टः सोऽपसर्पो जगाद। किमिति? हे मानवदेव! रक्षोभवन उषिताया देव्याः सीतायाः परिग्रहात्स्वीकारात् अन्यत्रेतरांशे। तं वर्जयित्वेत्यर्थः। त्वदीयं सर्वं चरितं पौराः स्तुवन्ति ॥

Verse 33
कलत्रनिन्दागुरुणा किलैवमभ्याहतं कीर्तिविपर्ययेण । अयोघनेनाय इवाभितप्तं वैदेहिबन्धोर्हृदयं विदद्रे ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): कलत्रेति॥ एवं किल कलत्रनिन्दया गुरुणा दुर्वहेण कीर्तिविपर्ययेणापकीर्त्याऽभ्याहतं वैदेहिबन्धोर्वैदेहिवल्लभस्य!`ङ्यापोः संज्ञाछन्दसोर्बहुलम्` (पा.6।3।67) इति ह्रस्वः। `कालिदास` इतिवत्। हृदयम्। अयोनेनाभितप्तं संतप्तमय इव। विदद्रे विदीर्णम्। कर्तरि लिट् ॥

Verse 34
किमात्मनिर्वादकथामुपेक्षे जायामदोषामुत संत्यजामि । इत्येकपक्षाश्रयविक्लवत्वादासीत्स दोलाचलचित्तवृत्तिः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): किमिति॥ आत्मनो निर्वादोऽपवाद एव कथा तां किमुपेक्षे? उत अदोषां साध्वीं जायां संत्यजामि? उभयत्रापि प्रश्ने लट्। इत्येकपक्षाश्रये अन्यतरपक्षपरिग्रहे विक्लवत्वादपरिच्छेत्तृत्वात्स रामो दोलेव चला चित्तवृत्तिर्यस्य स आसीत् ॥

Verse 35
निश्चित्य चानन्यनिवृत्ति वाच्यं त्यागेन पत्न्याः परिमार्ष्टुमैच्छत् । अपि स्वदेहात्किमुतेन्द्रियार्थाद्यशोधनानां हि यशो गरीयः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): निश्चित्येति॥ किंच, वाच्यमपवादम्। नास्त्यन्येन त्यागातिरिक्तोपायेन निवृत्तिर्यस्य तदनन्यनिवृत्ति। निश्चित्य पत्न्यास्त्यागेन परिमार्ष्टुं परिहर्तुमैच्छत्। तथा हि-यशोधनानां पुंसां स्वदेहादपि यशो गरीयो गुरुतरम्। इन्द्रियार्थात् स्नक्चन्दनवनितादेरिन्द्रियविषयाद्गरीय इति किमुत वक्तव्यम्? `पञ्चमी विभक्ते` (पा.2।3।42)इत्युभयत्रापि पञ्चमी॥ सीता चेन्दियार्थं एव ॥

Verse 36
स संनिपात्यावरजान्हतौजास्तद्विक्रियादर्शनलुप्तहर्षान् । कौलीनमात्माश्रयमाचचक्षे तेभ्यः पुनश्चेदमुवाच वाक्यम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ हतौजा निस्तेजस्कः स रामस्तस्य रामस्य विक्रियादर्शनेन लुप्तहर्षानवरजान् संनिपात्य संगमय्य। आत्माश्रयं स्वविषयकं कौलीनं निन्दां तेभ्य आचचक्षे। पुनरिदं वाक्यमुवाच ॥

Verse 37
राजर्षिवंशस्य रविप्रसूतेरुपस्थितः पश्यत कीदृशोऽयम् । मत्तः सदाचारशुचेः कलङ्कः पयोदवातादिव दर्पणस्य ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): राजर्षीति॥ रवेः प्रसूतिर्जन्म यस्य तस्य राजर्षिवंशस्य सदाचारशुचेः सद्वृत्ताच्छुद्धान्मत्तो मत्सकाशात्। दर्पणस्य पयोदवातादिव। साम्भः-कणादित्यर्थः। कीदृशोऽयं कलङ्क उपस्थितः प्राप्तः पश्चत ॥

Verse 38
पौरेषु सोऽहं बहुलीभवन्तमपां तरंगेष्विव तैलबिन्दुम् । सोढुं न तत्पूर्वमवर्णमीशे आलानिकं स्थाणुमिव द्विपेन्द्रः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): पौरेष्विति॥ सोऽहम्। अपां तरंगेषु तैलबिन्दुमिव। पौरेषु बहुलीभवन्तं प्रसरन्तम्। स एव पूर्वो यस्य स तम्। तत्पूर्वमवर्णमपवादम्। `अवर्णोक्षेपनिर्वादपरीवादापवादवत्` इत्यमरः। द्विपेन्द्रः। आलानमेवालानिकम्। विनयादित्वात्स्वार्थे ठक्। अथवा, -आलानं बन्धनं प्रयोजनमस्येत्यालानिकम्। `प्रयोजनम्` (पा.5।1।109) इति ठक्। स्थाणुं स्तम्भमिव। `चूतवृक्ष`इतिवत्सामान्यविशेषभावादपौनरुक्त्यं द्रष्टव्यम्। सोढुं नेशे न शक्नोमि ॥

Verse 39
तस्यापनोदाय फलप्रवृत्तावुपस्थितायामपि निर्व्यपेक्षः । त्यक्ष्यामि वैदेहसुतां पुरस्तात्समुद्रनेमिं पितुराज्ञयेव ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तस्येति॥ तस्यावर्णस्यापनोदाय फलप्रवृत्तावपत्योत्पत्तावुपस्थितायां सत्यामपि निर्व्यपेक्षो निःस्पृहः सन्। वैदेहसुताम्। पुरस्तात् पूर्वं पितुराज्ञया समुद्रनेमिम्। समुद्रो नेमिरिव नेमिर्यस्याः सा भूमिः। तामिव। त्यक्ष्यामि ॥

Verse 40
अवैमि चैनामनघेति किंतु लोकापवादो बलवान्मतो मे । छाया हि भूमेः शशिनो मलत्वेनारोपिता शुद्धिमतः प्रजाभिः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): अवैमीति॥ एनां सीतामनघा साधअवीति चावैमि। किंतु मे मम लोकापवादो बलवान्मतः। कुतः? हि यस्मात् प्रजाभिर्भूमेश्चाया प्रतिबिम्बं शुद्धिमतो निर्मलस्य शशिनो मलत्वेन कलङ्कत्वेनारोपिता। अतो लोकापवाद एव बलवानित्यर्थः ॥