रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 41 to 50 of 87 verses
Verse 41
रक्षोवधान्तो न च मे प्रयासो व्यर्थः स वैरप्रतिमोचनाय । अमर्षणः शोणितकाङ्क्षया किं पदा स्पृशन्तं दशति द्विजिह्वः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): रक्ष इति॥ किंच, मे रक्षोवधान्तः प्रयासो व्यर्थो न। किंतु स वैरप्रतिमोचनाय वैरशोधनाय। तथा हि-अमर्षणोऽसहनो द्विजिह्वः सर्पः पदा पादेन स्पृशन्तं पुरुषं शोणितकाङ्क्षया दशति किम्? किंतु वैरनिर्यातनायेत्यर्थः ॥

Verse 42
तदेष सर्गः करुणार्द्रचित्तैर्न मे भवद्भिः प्रतिषेधनीयः । यद्यर्थिता निहृतवाच्यशल्यान्प्राणान्मया धारयितुं चिरं वः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तदिति॥ तत्तस्मादेष मे सर्गो निश्चयः। `सर्गः स्वभावनिर्मोक्षनिशअचयाध्यायसृष्टिषु` इत्यमरः। करुणार्द्रचित्तैर्भवद्भिर्न प्रतिषेधनीयः। निर्हृतं वाच्यमेव शल्यं येषां तान्प्राणान्मया चिरं धारयितुं धारणं कारयितुं वो युष्माकमर्थिताऽर्थित्वमिच्छा यदि। अस्तीति शेषः ॥

Verse 43
इत्युक्तवन्तं जनकात्मजायां नितान्तरूक्षाभिनिवेशमीशम् । न कश्चन भ्रातृषु तेषु शक्तो निषेद्धुमासीदनुमोदितुं वा ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): इतीति॥ इत्युक्तवन्तं जनकात्मजायां विषये नितान्तरूक्षाभिनिवेशमतिक्रूराग्रहमीशं स्वामिनं तेषथु भ्रातृषु मध्ये कश्चनापि निषेद्धुं निवारयितुमनुमोदितुं प्रवर्तयितुं वा शक्तो नासीत्। पक्षद्वयस्यापि प्रबलत्वादित्यर्थः ॥

Verse 44
स लक्ष्मणं लक्ष्मणपूर्वजन्मा विलोक्य लोकत्रयगीतकीर्तिः । सौम्येति चाभाष्य यथार्थभाषी स्थितं निदेशे पृथगादिदेश ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ लोकत्रयगीतकीर्तिर्यथार्थभाषी लक्ष्मणपूर्वजन्मा लक्ष्मणाग्रजः स रामो निदेशे स्थितमाज्ञाकारिणं लक्ष्मणं विलोक्य `हे सौम्य सुभग!` इत्याभाष्य च पृथग्भरत-शत्रुघ्नाभअयां विनाकृत्य । आदिदेशाज्ञापयामास ॥

Verse 45
प्रजावती दोहदशंसिनी ते तपोवनेषु स्पृहयालुरेव । स त्वं रथी तद्व्यपदेशनेयां प्रापय्य वाल्मीकिपदं त्यजैनाम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): प्रजावतीति॥ दोहृदो गर्भिणीमनोरथः। तच्छंसिनी ते प्रजावती भ्रातृजाया। `प्रजावती भ्रातृजाया` इत्यमरः (अ.को.2|6|30)। तपोवनेषु स्पृहयालुरेव सस्पृहेव। `स्पृहिगृहि-` (पा.3।2।158) इत्यादिनालुच्प्रत्ययः। स त्वं रथी सन्। तद्व्यपदेशेन दोहदमिषेण नेयां नेतव्यामेनां सीतां वाल्मीकेः पदं स्थानं प्रापय्य गमयित्वा। `विभाषापः` (पा.6।4।57) इत्ययादेशः। त्यज॥

Verse 46
स शुश्रुवान्मातरि भार्गवेण पितुर्नियोगात्प्रहृतं द्विषद्वत् । प्रत्यग्रहीदग्रजशासनं तदाज्ञा गुरूणां ह्यविचारणीया ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ पितुर्जमदग्नेर्नियोगाच्छासनाद्भार्गवेण जामदग्नेयेन कर्त्रा। `न लोक-` (पा.2।3।69) इत्यादिना षष्ठीप्रतिषेधः। मातरि द्विषतीव द्विषद्वत्। `तत्र तस्येव` (पा.3।2।108) इति वतिप्रत्ययः। प्रहृतं प्रहारं शुश्रुवाञ्श्रुतवान्। `भाषायां सदवसश्रुवः` (पा.5।1।116) इति क्वसुप्रत्ययः। स लक्ष्मणस्तदग्रजशासनं प्रत्यग्रहीत्। हि यस्माद्गुरूणामाज्ञाऽविचारणीया ॥

Verse 47
अथानुकूलश्रवणप्रतीतामत्रस्नुभिर्युक्तधुरं तुरंगैः । रथं सुमन्त्रप्रतिपन्नरश्मिमारोप्य वैदेहसुतां प्रतस्थे ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथासौ लक्ष्मणः। अनुकूलश्रवणेन प्रतीतामिष्टाकर्णनेन तुष्टां वैदेहसुतामत्रस्नुभिरभीरुभिर्गर्भिणीवहनयोग्यैः। `त्रसिगृधिधृषिक्षिपेः क्नुः` (पा.3।2।140) इति क्नुप्रत्ययः। तुरंगैर्युक्तधुरं सुमन्त्रेण प्रतिपन्नरश्मिं गृहीतप्रग्रहं रथमारोप्य प्रतस्थे ॥

Verse 48
सा नीयमाना रुचिरान्प्रदेशान्प्रियंकरो मे प्रिय इत्यनन्दत् । नाबुद्ध कल्पद्रुमतां विहाय जातं तमात्मन्यसिपत्रवृक्षम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): सेति॥ सा सीता रुचिरान्प्रदेशान्नीयमाना प्राप्यमाणा सती मे मम प्रियः प्रियं करोतीति प्रियंकरः प्रियकारीत्यनन्दत्। `क्षेमप्रियमद्रेऽण्च` (पा.3।2।44) इति चकारात्खच्प्रत्ययः। तं प्रियमात्मानि विषये कल्पद्रुमतां विहायासिपत्रवृक्षं जातं नाबुद्ध नाज्ञासीत्। बुध्यतेर्लङ्। असिपत्रवृक्षः खङ्गाकारदलः कोऽप्यपूर्वो वृक्षविशेषः। `असिपत्रो भवेत्कोषकारे च नरकान्तरे` इति विशअवः। आसन्नधातुक इति भावः ॥

Verse 49
जुगूह तस्याः पथि लक्ष्मणो यत्सव्येतरेण स्फुरता तदक्ष्णा । आखअयातमस्यै गुरु भावि दुःखमत्यन्तलुप्तप्रियदर्शनेन ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): जुहूतेति॥ पथि लक्ष्मणो यद्दुःखं तस्याः सीताया जुगूह प्रतिसंहृतवान् तद्गुरु भावि भविष्यद्दुःखमत्यन्तलुप्तं प्रियदर्शनं यस्य तेन स्फुरता सव्येतरेण दक्षिणेनाक्ष्णाऽस्यै सीताया आख्यातम्। स्त्रीणां दक्षिणाक्षिस्फुरणं दुर्निमित्तमाहुः ॥

Verse 50
सा दुर्निमित्तोपगताद्विषादात्सद्यःपरिम्लानमुखारविन्दा । राज्ञः शिवं सावरजस्य भूयादित्याशशंसे करणैरबाह्यैः ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): सेति॥ सा सीता दुर्निमित्तेन दक्षिणाक्षिस्फुरणरूपेणोपगतात्प्राप्ताद्विषादाद्दुःखात् सद्यःपरिम्लानमुखारविन्दा सती `सावरजस्य सानुजस्य राज्ञो रामस्य शिवं भूयात्` इत्यबाह्यैः करणैरन्तःकरणैः। आशसंसे। शंसतेरपेक्षायामात्मनेपदमिष्यते। `करणैः` इति बहुवचनं क्रियावृत्त्यभिप्रायम्। पुनःपुनराशशंस इत्यर्थः॥

Showing 41 to 50 of 87 verses