रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 41 to 50 of 103 verses
Verse 41
स पृष्टः सर्वतो वार्तमाख्यद्राज्ञे न संततिम् । प्रत्यर्पयिष्यतः काले करेराद्यस्य शासनात् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ स शत्रुघ्नः पृष्टः सन्। सर्वतो वार्तं कुशलं राज्ञे रामाय। आख्यदाख्यातवान्। चक्षिङो लुङ्। `चक्षिडः ख्याञ्` (पा.2।4।54)इति ख्याञादेशः। `अस्यतिवक्ति-` (पा.3।1।52)इत्यङ्। `आतो लोप इटि च` (पा.6।4।64) इत्याकारलोपः। ख्यातेर्वा लुङ्। संततिं कुशलवोत्पत्तिं नाख्यत्। कुतः? कालेऽवसरे प्रत्यर्पयिष्यत आद्यस्य कवेर्वाल्मीकेः शासनात् ॥

Verse 42
अथ जानपदो विप्रः शिशुमप्राप्तयौवनम् । अवतार्याङ्कशय्यास्थं द्वारि चक्रन्द भूपतेः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथ जनपदे भवो जानपदो विप्रः। कश्चिदिति शेषः। अप्राप्त यौवनं शिशुम्। मृतमिति शेषः। भूपते रामस्य द्वारि। अङअकशय्यास्थं यथा तथाऽवतार्याङ्कस्थत्वेनैवावरोप्य। चक्रन्द चुक्रोश ॥

Verse 43
शोचनीयासि वसुधे! या त्वं दशरथाञ्युता । रामहस्तमनुप्राप्य कष्टात्कष्टतरं गता ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): शोचनीयेति॥ हे वसुधे! दशरथाञ्च्युता या त्वं रामहस्तमनुप्राप्य कष्टात्कष्टतरं गता सती शोचनीयाऽसि ॥

Verse 44
श्रुत्वा तस्य शुचो हेतुं गोप्ता जिह्नाय राघवः । न ह्यकालभवो मृत्युरिक्ष्वाकुपदमस्पृशत् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): श्रुत्वेति॥ गोप्ता रक्षको राघवस्तस्य विप्रस्य शुचः शोकस्य हेतुं पुत्रमरणरूपं श्रुत्वा जिह्नाय लज्जितः। कुतः? हि यस्मादकालभवो मृत्युरिक्ष्वाकूणां पदं राष्ट्रं नास्पृशत्। वृद्धे जीवति यवीयान्न म्रियत इत्यर्थः ॥

Verse 45
स मुहूर्तं क्षमस्वेति द्विजमाश्वास्य दुःखितम् । यानं सस्मार कौबेरं वैवस्वतजिगीषया ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ स रामो दुःखितं द्विजं मुहूर्तं क्षमस्वेत्याश्वास्य वैवस्वतस्यान्तकस्य जिगीषया जेतुमिच्छया कौबेरं यानं पुष्पकं सस्मार ॥

Verse 46
आत्तशस्त्रस्तदध्यास्य प्रस्थितः स रघूद्वहः । उञ्चचार पुरस्तस्य गूढरूपा सरस्वती ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): आत्तेति॥ स रघूद्वहो राम आत्तशस्त्रः सन्। तत् पुष्पकमध्यास्य प्रस्थितः। अथ तस्य पुरो गूढरूपा सरस्वत्यशरीरा वागुञ्चचारोद्बभूव ॥

Verse 47
राजन्! प्रजासु ते कश्चिदपचारः प्रवर्तते । तमस्विष्य प्रशमयेर्भवितासि ततः कृती ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): राजन्निति॥ हे राजन्! ते प्रजासु कश्चिदपचारो वर्णधर्मव्यतिकरः प्रवर्तते। तमपचारमन्विष्य प्रशमयेः। ततः कृती कृतकृत्यो भवितासि भविष्यसि ॥

Verse 48
इत्याप्तवचनाद्रामो विनेष्यन्वर्णविक्रियाम् । दिशः पपात पत्रेण वेगनिष्कम्पकेतुना ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): इतीति॥ इत्याप्तवचनाद्रामो वर्णविक्रियां वर्णापचारं विनेष्यन्नपनेष्यन् वेगेन निष्कम्पकेतुना पत्रेण वाहनेन पुष्पकेण। `पत्रं वाहनपक्षयोः` इत्यमरः (अ.को.3|3|187)। दिशः पपात धावति स्म ॥

Verse 49
अथ धूमाभिताम्राक्षं वृक्षशाखावलम्बिनम् । ददर्श कंचिदैक्ष्वाकस्तपस्यन्तमधोमुखम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथेक्ष्वाकुवंशप्रभव ऐक्ष्वाको रामः। `कोपधादण्` (पा.4।2।32) इत्यणि कृते `दाण्डिनायन-` (पा.6।4।174) इत्यादिनोकारलोपनिपातः। धूमेन पीयमानेनाभिताम्राक्षं वृक्षशाखावलम्बिनमधोमुखं तपस्यन्तं तपश्चरन्तं कंचित्पुरुषं ददर्श ॥

Verse 50
पृष्टनामान्वयो राज्ञा स किलाचष्ट धूमपः । आत्मानं शम्बुकं नाम शूद्रं सुपरदार्थिनम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): पृष्टेति॥ राज्ञा नाम चान्वयश्च नामान्वयौ, तौ पृष्टौ यस्य तथोक्तः। धूमं पिबतीति धूमपः। `सुपि-` (पा.3।2।4) इति योगविभागात्कप्रत्ययः। स पुरुष आत्मानं सुरपदार्थिनम्। अनेन प्रयोजनमपि पृष्टमिति ज्ञेयम्। शम्बुकं नाम शूद्रमाचष्ट बभाषे किल ॥

Showing 41 to 50 of 103 verses