रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 21 to 30 of 103 verses
Verse 21
विनाशात्तस्य वृक्षस्य रक्षस्तस्मै महोपलम् । प्रजिघाय कृतान्तस्य मुष्टिं पृथगिव स्थितम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): विनाशादिति॥ रक्षो लवणस्तस्य विनाशाद्धेतोः। महोपलं महान्तं पाषाणम्। पृथक्स्थितं कृतान्तस्य यमस्य मुष्टिमिव। `मुष्टि` शब्दो द्विलिङ्गः। तस्मै शत्रुघ्नाय प्रजिघाय प्रहितवान् ॥

Verse 22
ऐन्द्रमस्त्रमुपादाय शत्रुघ्नेन स ताडितः । सिकतात्वादपि परां प्रपेदे परमाणुताम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): ऐन्द्रमिति॥ स महोपलः शत्रुघ्नेनैन्द्रमिन्द्रदेवताकमस्त्रमुपादाय ताडितोऽभिहतः सन्। सिकतात्वात्सिकताभावादपि परां परमाणुतां प्रपेदे। यतोऽणुर्नास्ति स परमाणिरित्याहुः ॥

Verse 23
तमुपाद्रवदुद्यम्य दक्षिणं दोर्निशाचरः । एकताल इवोत्पातपवनप्रेरितो गिरिः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तमिति॥ निशाचरो राक्षसो दक्षिणं दोः। `ककुद्दोषणी` इति भगवतो भाष्यकारस्य प्रयोगाद्दोषशब्दस्य नपुंसकत्वं द्रष्टव्यम्। `भुजबाहू प्रवेष्टो दोः` इति पुंलिङ्गसाहचर्यात्पुंस्त्वं च। तथा च प्रयोगः-`दोषं तस्य तथाविधस्य भजते` इति। सव्येतरं बाहुमुद्यम्य। एकस्तालस्तदाख्यवृक्षो यस्मिन्स एकतालः। उत्पातपवनेन प्रेरितो गिरिरिव। तं शत्रुघ्नमुपाद्रवदभद्रुतः ॥

Verse 24
कार्ष्णेन पत्रिणा शत्रुः स भिन्नहृदयः पतन् । अनिनाय भुवः कम्पं जहाराश्रमवासिनाम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): कार्ष्णेनेति॥ स शत्रुर्लवणः। कार्ष्णेन वैष्णवेन पत्रिणा बाणेन। उक्तं च रामायणे-`एवमेष प्रजनितो विष्णोस्तेजोमयः शरः`इति। `विष्णुर्नारायण कृष्णः` इत्यमरः। भिन्नहृदयः पतन्, भुवः कम्पमानिनायानीतवान्। देहभारादित्यर्थः। आश्रमवासिनां कम्पं जहार। तन्नाशादकुतोभया बभूवुरित्यर्थः॥

Verse 25
वयसां पङ्क्तयः पेतुर्हतस्योपरि विद्विषः । तत्प्रतिद्वन्द्विनो मूर्धअनि दिव्याः कुसुमवृष्टयः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): वयसामिति॥ हतस्य विद्वेष्टीति विद्विट् तस्य विद्विषो राक्षसस्योपरि वयसां पक्षिणां पङ्क्तयः पेतुः। तत्प्रतिद्वन्द्विनः शत्रुघ्नस्य मूर्न्धि तु दिव्याः कुसुमवृष्टयः पेतुः ॥

Verse 26
स हत्वा लवणं वीरस्तदा मेने महौजसः । भ्रातुः सोदर्यमात्मानमिन्द्रजिद्वधशोभिनः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ स वीरः शत्रुघ्नो लवणं हत्वा तदाऽऽत्मानं महौजसो महाबलस्येन्द्रजिद्वधेन शोभिनो भ्रातुर्लक्ष्मणस्य समानोदरे शयितं सोदर्यमेकोदरं मेने। `सोदराद्यः` (पा.4।4।109) इति यप्रत्ययः ॥

Verse 27
तस्य संस्तूयमानस्य चरितार्थैस्तपस्विभिः । शुशुभे विक्रमोदग्नं व्रीडयावनतं शिरः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तस्येति॥ चरितार्थैः कृतार्थैः कृतकार्यैस्तपस्विभिः संस्तूयमानस्य तस्य शत्रुघ्नस्य विक्रमेणोदग्रमुन्नतं व्रीडया लज्जयावनतं नम्रं शिरः शुशुभे। विक्रान्तस्य लज्जैव भूषणमिति भावः ॥

Verse 28
उपकूलं स कालिन्द्याः पुरीं पौरुषभूषणः । निर्ममे निर्ममोऽर्थेषु मथुरां मधुराकृतिः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): उपेति॥ पौरुषभूषणः। अर्थेषु विषयेषु निर्ममो निःस्पृहः। मधुराकृतिः सौम्यरूपः। स शत्रुघ्नः कालिन्द्या यमुनाया उपकूलं कूले। विभक्त्यर्थेऽव्ययीभावः। मथुरां नाम पुरीं निर्ममे निर्मितवान् ॥

Verse 29
या सौराज्यप्रकाशाभिर्बभौ पौरविभूतिभिः । स्वर्गाभिष्यन्दवमनं कृत्वेवोपनिवेशिता ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): येति॥ या पूः। शत्रुघ्नः शोभनो राजा यस्याः पुरः सा सुराज्ञी, सुराज्ञ्या भावः सौराज्यम्। तेन प्रकाशाभिः प्रकाशमानाभिः पौराणां विभूतिभिरैश्वर्यैः। स्वर्गस्याभिष्यन्दोऽतिरिक्तजनस्तस्य वमनमाहरणं कृत्वा, उपनिवेशितोपस्थापितेव बभौ। अत्र कौटिल्यः-`भूतपूर्वमभूतपूर्वं वा जनपदं परदेशप्रवाहेण स्वदेशाभिष्यन्दवमनेने वा निवेशयेत्` इति ॥

Verse 30
तत्र सौधगतः पश्यन्यमुनां चक्रवाकिनीम् । हेमभक्तिमतीं भूमेः प्रवेणीमिव पिप्रिये ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तत्रेति॥ तत्र मथुरायां सौधगतो हर्म्यारूढः स चक्रवाकिनीं चक्रवाकवतीं यमुनाम्। हेमभक्तिमतीं सुवर्णरचनावतीं भूमेः प्रवेणीं वेणीमिव। `वेणिः प्रवेणी` इत्यमरः। पश्यन्पिप्रिये प्रीतः। `प्रीङ् प्रीणने` इति धातोर्दैवादिकाल्लिट् ॥