रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 11 to 20 of 103 verses
Verse 11
तस्य मार्गवशादेका बभूव वसतिर्यतः । रथस्वनोत्कण्ठमृगे वाल्मीकीये तपोवने ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तस्येति॥ यतो गच्छतः। इण्धातोः शदृप्रत्ययः। तस्य शत्रुघ्नस्य मार्गवशाद्रथस्वन उत्कण्ठा उद्गीवा मृगा यस्मिंस्तस्मिन्वाल्मीकीये वाल्मीकिसंबन्धिनि। `वृद्धाच्छः` (पा.4।2।114) इति छप्रत्ययः। तपोवन एका वसती रात्रिर्बभूव। तत्रैकां रात्रिमुषित इत्यर्थः। `वसती रात्रिवेश्मनोः` इत्यमरः (अ.को.3|3|74)॥

Verse 12
तमृषिः पूजयामास कुमारं क्लान्तवाहनम् । तपःप्रभावसिद्धाभिर्विशेषप्रतिपत्तिभिः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तमिति॥ क्लान्तवाहनं श्रान्तयुग्यं तं कुमारं शत्रुघ्नमृषिर्वाल्मीकिस्तपः प्रभावसिद्धाभिर्विशेषप्रतिपत्तिभिरुत्कृष्टसंभावनाभिः पूजयामास ॥

Verse 13
तस्यामेवस्य यामिन्यामन्तर्वत्नी प्रजावती । सुतावसूत संपन्नौ कोशदण्डाविव क्षितिः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तस्यामिति॥ तस्यामेव यामिन्यां रात्रौ। अस्य शत्रुघ्नस्य। अन्तरस्या अस्तीत्यन्तर्वत्नी गर्भिणी `अन्तर्वत्नी च गर्भिणी` इत्यमरः (अ.को.2|6|22)। `अन्तर्वत्पतिवतोर्मुक्` (पा.4।1।32) इति ङीप्, नुगागमश्च। प्रजावती भ्रातृजाया सीता। क्षितिः संपन्नौ समग्रौ कोशदण्डाविव। सुतावसूत ॥

Verse 14
संतानश्रवणाद्भ्रातुः सौमित्रिः सौमनस्यवान् । प्राञ्जलिर्मुनिमामन्त्र्य प्रातर्युक्तरथो ययौ ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): संतानेति॥ भ्रातुर्ज्येष्ठस्य संतानश्रवणाद्धेतोः सौमनस्यवान्प्रीतिमान् सौमित्रिः शत्रुघ्नः प्रातर्युक्तरथः सज्जरथः सन्। प्राञ्जलिः कृताञ्जलिर्मुनिमामन्त्रअयापृच्छ्य ययौ ॥

Verse 15
स च प्राप मधूपघ्नं कुम्भीनस्याशअच कुक्षिजः । वनात्करमिवादाय सत्त्वराशिमुपस्थितः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): स चेति॥ स शत्रुश्च मधूपघअनं नाम लवणपुरं प्राप। कुम्भीनसी नाम रावणस्वसा। तस्याः कुक्षिजः पुत्रो लवणश्च वनात्करं बलिमिव सत्त्वानां प्राणिनां राशिमादायोपस्थितः प्राप्तः ॥

Verse 16
धूमधूम्रो वसागन्धी ज्वालाबभ्रुशिरोरुहः । क्रव्याद्गणपरीवारश्चिताग्निरिव जंगमः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): धूमेति॥ किंभूतो लवणः? धूम इव धूम्रः कृष्णलोहितवर्णः। `धूम्रधूमलौ कृष्णलोहिते` इत्यमरः (अ.को.1|5|17)। वसागन्धो हृन्मेदोगन्धः। सोऽस्यास्तीति वसागन्धी। `हृन्मेदस्तु वपा वसा` इत्यमरः (अ.को.2|6|65)। ज्वाला इव बभ्रवः पिशङ्गाः शिरोरुहाः केशा यस्य स तथोक्तः। `विपुले नकुले विष्णौ बभ्रुः स्यात्पिङ्गले त्रिषु` इत्यमरः (अ.को.1|5|17)। क्रव्यं मांसमदन्तीति क्रव्यादो राक्षसाः, तेषां गण एव परीवारो यस्य स तथोक्तः। अत एव जंगमश्चरिष्णुशअचिताग्निरिव स्थितः। कृशानुपक्षे, -धूमैर्धूम्रवर्णः। ज्वाला एव शिरोरुहाः। क्रव्यादो गृध्रादयः इत्यनुसंधेयम् ॥

Verse 17
अपशूलं तमासाद्य लवणं लक्ष्मणानुजः । रुरोध संमुखीनो हि जयो रन्ध्रप्रहारिणाम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): अपशूलमिति॥ लक्ष्मणानुजः शत्रुघ्नोऽपशूलं शूलरहितं तं लवणमासाद्य रुरोध। तथा हि-रन्ध्रप्रहारिणां रन्ध्रप्रहरणशीलानाम्। अपशूलतैवात्र रन्धअरम्। जयः संमुखीनो हि संमुखस्य दर्शनो हि। `यथामुखसंमुखस्य दर्शनः खः` (पा.5।2।6) इति खप्रत्ययः। अधिकारलक्षणार्थस्तु दुर्लभ एव ॥

Verse 18
नातिपर्याप्तमालक्ष्य मत्कुक्षेरद्य भोजनम् । दिष्ट्या त्वमसि मे धात्रा भीतेनेवोपपादितः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): नेति॥ इतीति॥ युग्मम्। राक्षसो लवणः। अद्य मत्कुक्षेः। भुज्यत इति भोजनम्। भोज्यं मृगादिकं नातिपर्याप्तमनतिसमग्रमालक्षअय दृष्ट्वा भीतेनेव धात्रा दिषअट्या भाग्येन मे त्वमुपपादितः कल्पितोऽसि। इति शत्रुघ्नं संतर्ज्य तस्य शत्रुघ्नस्य जिघांसया हन्तुमिच्छया प्रांशुमुन्नतं द्रुमम्। मुस्तास्तम्बमिव अक्लेशेनोत्पाटयामास ॥

Verse 19
इति संतर्ज्य शत्रुघ्नं राक्षसस्तज्जिघांसया । प्रांशुमुत्पाटयामास मुस्तास्तम्बमिव द्रुमम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): नेति॥ इतीति॥ युग्मम्। राक्षसो लवणः। अद्य मत्कुक्षेः। भुज्यत इति भोजनम्। भोज्यं मृगादिकं नातिपर्याप्तमनतिसमग्रमालक्षअय दृष्ट्वा भीतेनेव धात्रा दिषअट्या भाग्येन मे त्वमुपपादितः कल्पितोऽसि। इति शत्रुघ्नं संतर्ज्य तस्य शत्रुघ्नस्य जिघांसया हन्तुमिच्छया प्रांशुमुन्नतं द्रुमम्। मुस्तास्तम्बमिव अक्लेशेनोत्पाटयामास ॥

Verse 20
सौमित्रेर्निशितैर्बाणैरन्तरा शकलीकृतः । गात्रं पुष्परजः प्राप न शाखी नैर्ऋतेरितः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): सौमित्रेरिति॥ नैर्ऋतेरितो रक्षःप्रेरितः शाख्यन्तरा मध्ये निशइतैर्बाणैः शकलीकृतः सन्, सौमित्रेः शत्रुघ्नस्य गात्रं न प्राप। किंतु पुष्परजः प्राप ॥

Showing 11 to 20 of 103 verses