रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 61 to 70 of 87 verses
Verse 61
वाच्यस्त्वया मद्वचनात्स राजा वह्नौ विशुद्धामपि यत्समक्षम् । मां लोकवादश्रवणादहासीः श्रुतस्य किं तत्सदृशं कुलस्य ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): वाच्य इति॥ स राजा त्वया मद्वचनान्मद्वचनमिति कृत्वा। ल्यब्लोपे पञ्चमी। वाच्यो वक्तव्यः। किमित्यत आह `वह्नौ` इत्यादिभिः सप्तभिः श्लोकैः-अक्ष्णोः समीपे समक्षम्। विभक्त्यर्थेऽव्ययीभावः, सामीप्यार्थे वा। `अव्ययीभावे शरत्प्रभृतिभ्यः` (पा.5।4।107) इति समासान्तष्टच्प्रत्ययः। समक्षमग्रे वह्नौ विशुद्धामपि मां लोकवादस्य मिथ्यापवादस्य श्रवणाद्धेतोरहासीरत्याक्षीरिति यत्तच्छ्रुतस्य प्रख्यातस्य कुलस्य सदृशं किम्? किंत्वसदृशमित्यर्थः। यद्वा, -श्रुतस्य श्रवणस्य कुलस्य चेति योजना। कामचार्यसीति भावः ॥

Verse 62
कल्याणबुद्धेरथवा तवायं न कामचारो मयि शङ्कनीयः । ममैव जन्मान्तरपातकानां विपाकविस्फूर्जथुरप्रसह्यः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): कल्याणेति॥ अथवा कल्याणबुद्धेः सुधियस्तव कर्तुः मयि विषयेऽयं त्यागो न कामचार इच्छया करणं न शङ्कनीयः। कामचारशङ्कापि न क्रियत इत्यर्थः। किंतु ममैव जन्मान्तरपातकानामप्रसह्यो विपच्यत इति विपाकः फलम्। स एव विस्फूर्जथुरशनिनिर्घोषः। `स्फूर्जथुर्वज्रनिर्घोषः` इत्यमरः (अ.को.1|3|12)॥

Verse 63
उपस्थितां पूर्वमपास्य लक्ष्मीं वनं मया सार्धमसि प्रपन्नः । तदास्पदं प्राप्य तयातिरोषात्सोढास्मि न त्वद्भवने वसन्ती ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): उपस्थितामिति॥ पूर्वमुपस्थितां प्राप्तां लक्ष्मीमपास्य मया सार्धं वनं प्रपन्नोऽसि प्राप्तोऽसि। तत्तस्मात्तया लक्ष्म्याऽतिरोषात्त्वद्भवनं आस्पदं प्रतिष्ठाम्। `आस्पदं प्रतिष्ठायाम्` (पा.6।1।146) इति निपातः। प्राप्य वसन्त्यहं सोढा नास्मि ॥

Verse 64
निशाचरोपप्लुतभर्तृकाणां तपस्विनीनां भवतः प्रसादात् । भूत्वा शरण्या शरणार्थमन्यं कथं प्रपत्स्ये त्वयि दीप्यमाने ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): निशाचरेति॥ निशाचरैरुपप्लुताः पीडिता भर्तारो यासां ता निशाचरोपप्लुतभर्तृकाः। `नद्यृतश्च` (पा.5।4।153) इति कप्प्रत्ययः। तासां तपस्विनीनां भवतः प्रसादादनुग्रहाच्छरण्या शरणसमर्था भूत्वा। अद्य त्वयि दीप्यमाने प्रकाशमाने सत्येव शरणार्थमन्यं तपस्विनं कथं प्रपत्स्ये प्राप्स्यामि? ॥

Verse 65
किंवा तवात्यन्तवियोगमोघे कुर्यामुपेक्षां हतजीवितेऽस्मिन् । स्याद्रक्षणीयं यदि मे न तेजस्त्वदीयमन्तर्गतमन्तरायः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): किंवेति॥ किंवाऽथवा तव संबन्धिनाऽत्यन्तेन पुनः प्राप्तिरहितेन वियोगेन मोघे निष्फलेऽस्मिन्हतजीविते तुच्छजीवित उपेक्षां कुर्यां कुर्यामेव। रक्षणीयं रक्षणार्हमन्तर्गतं कुक्षिस्थं त्वदीयं तेजः शुक्रं गर्भरूपम् `शुक्रं तेजोरेतसी च बीजवीर्येन्द्रियाणि च` इत्यमरः (अ.को.2|6|62)। यदि मे ममान्तरायो विघ्नो न स्यात् ॥

Verse 66
साहं तपः सूर्यनिविष्टदृषअटिरूर्ध्वं प्रसूतेश्चरितुं यतिष्ये । भूयो यथा मे जजान्तरेऽपि त्वमेव भर्ता न च विप्रयोगः ॥
सञ्जीविनीटीका (मल्लिनाथः): सेति॥ साऽहं प्रसूतेरूर्घ्वं सूर्यनिविष्टदृष्टिः सती तथाविधं तपश्चरितुं यतिष्ये। यथा भूयस्तेन तपसा मे मम जननान्तरेऽपि त्वमेव भर्ता स्याः, विप्रयोगश्च न स्यात् ॥

Verse 67
नृपस्य वर्णाश्रमपालनं यत्स एव ध्रर्मो मनुना प्रणीतः । निर्वासिताप्येवमतस्त्वयाहं तपस्विसामान्यमवेक्षणीया ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): नृपस्येति॥ वर्णानां ब्राह्मणादीनामाश्रमाणां ब्रह्मचर्यादीनां च पालनं यत्स एव नृपस्य धर्मो मनुना प्रणीत उक्तः। अतः कारणादेवं त्वया निर्वासिता निष्कासिताप्यहं तपस्विभिः सामान्यं साधारणं यथा भवति तथाऽवेक्षणीया। कलत्रदृष्ट्यभावेऽपि वर्णाश्रमदृषअटिः सीतायां कर्तव्येत्यर्थः ॥

Verse 68
तथेति तस्याः प्रतिगृह्य वाचं रामानुजे दृष्टिपथं व्यतीते । सा मुक्तकण्ठं व्यसनातिभराञ्चक्रन्द विग्नां कुररीव भूयः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तथेति॥ तथएति तस्याः सीताया वाचं प्रतिगृह्याङ्गीकृत्य रामानुजे लक्ष्मणे दृष्टिपथं व्यतीतेऽतिक्रान्ते सति सा सीता व्यसनातिभाराद्दुःखातिरेकात्। मुक्तकण्ठं यथा स्यात्तथा। वाग्वृत्त्येत्यर्थथः। विग्ना भीता कुररीवोत्क्रोशीव। `उत्क्रोशकुररौ समौ` इत्यमरः (अ.को.2|5|25)। भूयो भूयिष्ठं चक्रन्द चुक्रोश ॥

Verse 69
नृत्यं मयूराः कुसुमानि वृक्षा दर्भानुपात्तान्विजहुर्हरिण्यः । तस्याः प्रपन्ने समदुःखभावमत्यन्तमासीद्रुदितं वनेऽपि ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): नृत्यमिति॥ मयूरा नृत्यं विजहुस्त्यक्तवन्तः। वृक्षाः कुसुमानि। हरिण्य उपात्तान्दर्भान्। इत्थं तस्याः सीतायाः समदुःखभावं प्रपन्ने तुल्यदुःखत्वं प्राप्ते वनेऽप्यत्यनतं रुदितमासीत्। यथा रामगेहेऽपीति `अपि` शब्दार्थः॥

Verse 70
तामभ्यगच्छद्रुदितानुसारी कविः कुशेध्माहरणाय यातः । निषादविद्धआण्डजदर्शनोत्थः श्लोकत्वमापद्यत यस्य शोकः ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): तामिति॥ कुशेध्माहरणाय यातः कविर्वाल्मीकी रुदितानुसारी सन्, तां सीतामभ्यगच्छत्। अभिगमनं च दयालुतयेत्याह-निषादेति। निषादेन व्याधेन विद्धस्याण्डजस्य क्रौञ्चस्य दर्शनेनोत्थ उत्पन्नो यस्य शोकः श्लोकत्वमापद्यत। श्लोकरूपेणावोचदित्यर्थः। स च श्लोकः पठ्यते(बाल.2।15) `मा निषाद! प्रतिष्ठां त्वमगमः शाश्वतीः समाः। यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम् ॥` इति। तिरश्चामपि दुःखं न सेहे। किमुतान्येषामिति भावः ॥