रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 51 to 60 of 87 verses
Verse 51
गुरोर्नियोगाद्वनितां वनान्ते साध्वीं सुमित्रातनयो विहास्यन् । अवार्यतेवोत्थितवीचिहस्तैर्जह्नोर्दुहित्रा स्थितया पुरस्तात् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): गुरोरिति॥ गुरोर्ज्येष्टस्य नियोगात्साध्वीं वनिताम्। अत्याज्यामित्यर्थः। वनान्ते विहास्यंस्त्यक्ष्यन् सुमित्रातनयो लक्ष्मणः पुरस्तादग्रे स्थितया जह्नोर्दुहित्रा जाह्नव्योत्थितैर्वीचिहस्तैरवार्यतेव । `अकार्यं मा कुरु` इत्यवार्यतेव इत्युत्प्रेक्षा ॥

Verse 52
रथात्स यन्त्रा निगृहीतवाहात्तां भ्रातृजायां पुलिनेऽवतार्य । गङ्गां निषादाहृतनौविशेषस्ततार संधामिव सत्यसंधः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): रथादिति॥ सत्यसंधः सत्यप्रतिज्ञः स लक्ष्मणो यन्त्रा सारथिना निगृहीतवाहाद्रुद्धाश्वाद्रथाद्भ्रातृजायां पुलिनेऽवतार्यारोप्य निषादेन किरातेनाहृतनौविशेष आनीतदृढनौकः सन् गङ्गां भागीरथीम्। संधां प्रतिज्ञामिव ततार। `संधा प्रतिज्ञा मर्यादा` इत्यमरः ॥

Verse 53
अथ व्यवस्थापितवाक्कथंचित्सौमित्रिरन्तर्गतबाष्पकण्ठः । औत्पातिकं मेघ इवाश्मवर्षं महीपतेः शासनमुज्जगार ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथ कथंचिद्व्यवस्थआपिता प्रकृतिमापादिता वाग्येन सः अन्तर्गतबाष्पः कण्ठो यस्य सः। कण्ठस्तम्भिताश्रुरित्यर्थः। सौमित्रिर्महीपतेः शासनम्। मेघ उत्पाते भवमौत्पातिकमश्मवर्षं शिलावर्षमिव। उज्जगारोद्गीर्णवान्। दारुणत्वेनावाच्यत्वात् `उज्जगार` इत्युक्तम् ॥

Verse 54
ततोऽभिषङ्गानिलविप्रविद्धा प्रभ्रश्यमानाभरणप्रसूना । स्वमूर्तिलाभप्रकृतिं धरित्रीं लतेव सीता सहसा जगाम ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तत इति॥ ततः अभिषङ्गः पराभवः। `शापे त्वभिषङ्गः पराभवे` इत्यमरः (अ.को.3|3|29)। श एवानिलस्तेन विप्रविद्धा अभिहता। प्रभ्रशअयमानानि पतन्त्याभरणान्येव प्रसूनानि यस्याः सा सीता लतेव। सहसा स्वमूर्तिलाभस्य स्वशरीरलाभस्य स्वोत्पत्तेः प्रकृतिं कारणं धरित्रीं जगाम। भूमौ पपातेत्यर्थः। स्त्रीणामापदि मातैव शरणमिति भावः ॥

Verse 55
इक्ष्वाकुवंशप्रभवः कथं त्वां त्यजेदकस्मात्पतिरार्यवृत्तः । इति क्षितिः संशयितेव तस्यै ददौ प्रवेशं जननी न तावत् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): इक्ष्वाक्विति॥ इक्ष्वाकुवंशप्रभवः। महाकुलप्रसूत इत्यर्थः। आर्यवृत्तः साधुचरितः पतिर्भर्ता त्वामकस्मादकारणात् कथं त्यजेत्। असंभावितमित्यर्थः। इति संशयितेव संदिहानेव तावत्। त्यागहेतुज्ञानावधेः प्रागित्यर्थः। जननी क्षितिस्तस्यै सीतायै प्रवेशम्। आत्मनीति शेषः। न ददौ ॥

Verse 56
सा लुप्तसंज्ञा न विवेद दुःखं प्रत्यागतासुः समतप्यतान्तः । तस्याः सुमित्रात्मजयत्नलब्धो मोहादभूत्कष्टतरः प्रबोधः ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): सेति॥ लुप्तसंज्ञा नष्टचेतना मूर्च्छिता सा दुःखं न विवेद। प्रत्यागतासुर्लब्धसंज्ञा सती, अन्तः समतप्यत। दुःखेनादह्यतेत्यर्थः। तपेः कर्मणि लङ्। कर्मकर्तरीति केचित्, -तन्न; `तपस्तपः कर्मकस्यैव` (पा.3।1।88) इति यङ्नियमात्। तस्याः सीतायाः सुमित्रात्मजयत्नलब्धः प्रबोधो मोहात्कष्टतरोऽतिदुःखदोऽभूत्। दुःखवेदनासंभवादिति भावः ॥

Verse 57
न चावदद्भर्तुरवर्णमार्या निराकरिष्णोर्वृजिनादृतेऽपि । आत्मानमेव स्थिरदुःखभाजं पुनः पुनर्दुष्कृतिनं निनिन्द ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): न चेति॥ आर्या साध्वी सीता वृजिनादृत एनसो विनापि। `कलुषं वृजिनैनोऽघम्` इत्यमरः (अ.को.1|4|25)। `अन्यारादितरर्ते-` (पा.2।3।29) इत्यादिना पञ्चमी। निराकरिष्णोर्निरासकस्य। `अलंकृञ्-` (पा.3।2।136) इत्यादिनेष्णुच्प्रत्ययः। भर्तुरवर्णमपवादं न चावदन्नैवावादीत्। किंतु स्थिरदुःखभाजमत एव दुष्कृतिनमात्मानं पुनः पुनर्निनिन्द ॥

Verse 58
आश्वास्य रामावरजः सतीं तामाख्यातवाल्मीकिनिकेतमार्गः । निघ्नस्य मे भर्तृनिदेशरौक्ष्यं देवि! क्षमस्वेति बभूव नम्रः ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): आश्वास्येति॥ रामावरजो लक्ष्मणः सतीं साध्वीं तामाश्वास्य। आख्यात उपदिष्टो वाल्मीकेर्निकेतस्याश्रमस्य मार्गो येन स तथोक्तः सन्। निघ्नस्य पराधीनस्य। `अधीनो निघअन आयत्तः` इत्यमरः। मे भर्तृनिदेशेन स्वाम्यनुज्ञया हेतुनायद्रौक्ष्यं पारुष्यं तद्धे देवि! क्षमस्व। इति नम्रः प्रणतो बभूव ॥

Verse 59
सीता तमुत्थाप्य जगाद वाक्यं प्रीतास्मि ते सौम्य! चिराय जीव । बिडौजसा विष्णुरिवाग्रजेन भ्रात्रा यदित्थं परवानसि त्वम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): सीतेति॥ सीता तं लक्ष्मणमुत्थाप्य वाक्यं जगाद। किमिति? हे सौम्य साधो! ते प्रीतास्मि। चिराय चिरं जीव। यद्यस्मात्। बिडौजसेन्द्रेण विष्णुरुपेन्द्र इव। अग्रजेन ज्येष्ठेन भ्रात्रा त्वमित्थं परवान् परतन्त्रोऽसि ॥

Verse 60
श्वश्रूजनं सर्वमनुक्रमेण विज्ञापय प्रापितमत्प्रणामः । प्रजानिषेकं मयि वर्तमानं सूनोरनुधअयायत चेतसेति ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): श्वश्रूजनमिति॥ सर्वं श्वश्रूजनमनुक्रमेण प्रापितमत्प्रणामः सन्। मत्प्रणाममुक्त्वेत्यर्थः। विज्ञापय। किमिति? निषिच्यत इति निषेकः। मयि वर्तमानं सूनोस्त्वत्पुत्रस्य प्रजानिषेकं गर्भं चेतसाऽनुध्यायत `शिवमस्तु` इति चिन्तयतेति ॥