उप्फिणिअं लाअण्णस्स रसं घणथणहरं वाला॥ २८७॥
(अन्तःक्वथन्मदनाग्नितापितं वहति कनककान्तियुक्तम्।
उत्फालितं लावण्य/ण्यस्य—रसं घनस्तनभरं बाला॥)
खिण्णस्स उरे पइणो ठवेइ गिम्हावरण्हरमिअस्स।
ओल्लं गलंतउप्फं ण्हाणसुअंधं चिहुरभारं॥ २८८॥
(खिन्नस्योरसि स्थापयति पत्युः ग्रीष्मापराह्णरमितस्य।
आर्द्रं गलत्पुष्पं स्नानसुगन्धं चिकुरभारम्॥)
शतमेतत् स्वकीयानां त्रिचत्वारिंशदुत्तरम्।
उत्तमादिविभेदेन नायिकानामुदाहृतम्॥ २८९॥