आदिग्रहणतोऽन्येऽपि लक्षणीया विचक्षणैः॥ २१६॥
सञ्जीवनमनङ्गस्य सुखायतमात्मनः।
ऋत्वादीनामियं भङ्गिः शृङ्गारस्यापि जीवितम्॥ २१७॥
उपनिषदुपदिष्टा सेयमुद्दीपनानां त्रिभुवनविजयाप्तौ वैजयन्ती स्मरस्य।
तदुपहितविशेषाद्बोधसंस्कारजन्या ननुपदमनुभावानेव संभावयामः॥ २१८॥
इति श्रीमहाराजाधिराजश्रीभोजदेवविरचिते शृङगारप्रकाशे रत्युद्दीपनविभावप्रकाशो नाम
अनाकलितमंशतोऽप्यभिनवादिभिः शारदा—मही—मतिमतांवरैर्यदपि शारदावैभवम्।
तदेतदुपदीकरोत्ययमिहेति संपश्यतां विदां भवति विस्मयो, निधिभृतोऽप्यहो दौर्विधी॥