श्रुतिप्रवृत्तितो धर्मस्तथाऽर्थोऽपत्यलक्षणः।
प्रायो विस्रम्भजः कामः स्वकीयास्वेव तिष्ठति॥ २९०॥
गुणपरिणयधैर्यामौग्ध्यादियोगव्यतिकरपरिपाट्या विस्तृतोऽयं प्रकारः।
निजयुवतिषु सम्यग् धर्मकामार्थहेतोरमुमथ परकीयासूक्तवत् कीर्तयामः॥
तत्र परकीया उत्तमा यथा—(गास. ४.१७)
सुहवु/ठच्छिआइ सुहओ मुहपंकअसुरभिपवणणिव्वविअं।
तह पिअइ पअइ/कडुअं पि ओसढं/ठं जह ण णिट्ठाइ॥ २९२॥
(सुखपृच्छिकायाः सुभगः मुखपङ्कजसुरभिपवननिर्वापितम्।
तथा पिबति प्रकृति/बहलकटुकमप्यौषधं यथा न नितिष्ठति॥)