पट्ठिं ण देसि सअणे तहावि दे सुहअ ! कुप्पामो॥ २७९॥
{प्रेक्षसेऽनिमिषनयनो जल्पसि करकमलस्थगिताधरोष्ठः।
पृष्ठं न ददासि शयने तथापि ते सुभग ! कुप्यामः॥}
धीराऽनूढा प्रगल्भा यथा—(गास. ५.७०)
अण्णाण वि होंति मुहे पंहलधवलाइ दीहकसणाइं।
लोअणाइ सुंदरीणं तह वि खु दट्ठुं ण जाणंति॥ २८०॥
(अन्यासामपि सन्ति मुखे पक्ष्मलधवलानि दीर्घकृष्णानि।
कुमारीणां लोचनानि तथाऽपि द्रष्टुं न जानन्ति॥)
अधीरा प्रगल्भा यथा—(गास. ३.४४)
वेविरसिण्णकरंगुलिपरिक्खलंतंमि/ग्गहक्खसिअ लेहणीमग्गे।