सोत्थि व्विअ ण समप्पइ पिअसहि ! लेहम्मि किं लिहिमो ?॥ २८१॥
(वेपनशीलस्विन्नकराङ्गुलिपरिस्खलिते/परिग्रहसवलिते लेखनीमार्गे।
स्वस्त्येव न समाप्यते प्रियसखि ! लेखे किं लिखामः ?॥)
अधीरोढा प्रगल्भा यथा—(गास. ४.६८)
भरिमो से सअणपरम्मुहीएॅ विअलंतमाणपसराए।
कइअवसुत्तुव्वत्तणत्थणकलसहरपेल्लणसुहेल्लिं ॥ २८२॥
(स्मरामस्तस्याः शयनपराङ्मुख्याः विगलन्मानप्रसरायाः।
कैतवसुप्तोद्वर्तनस्तनकलश/हरपीडनसुखकेलिम् ॥)
अधीराऽनूढा प्रगल्भा यथा—(लीलावती. ४९०)
जाणामि च्चिअ पिअसहि ! दूरविरुद्धं कुमारभावस्स।