कीस वि सेसं पिअसहि ! मह हअहिअएण पारद्धी॥ २७५॥
(यमनुनयं कुमारीणां सुभगस्य च या दृक् प्रसाधितकुलस्य।
कस्मादपि शेषं प्रियसखि ! मम हतहृदयेन प्रारब्धम्॥)
ऊढा मध्या यथा—(गास. ५.५९)
रइ—विरम—लज्जिआए अप्पत्त—णिअसणाए सहस व्व।
ढक्कंति पिअपरिरंभणेण जहणं कुलवहुए॥ २७६॥
(रतिविरामलज्जिता अप्राप्तनिवसनाः सहसैव।
स्थगयन्ति प्रियपरिम्भणेन जघनं कुलवध्वः॥)
वरकित्तण—बलिअ—परम्मुहीए सूएइ होंतवहुआए।