अधीरा मध्या यथा—(गास. ७४३वे.)
भिउडीअ पुलोइस्सं णिब्भच्छिस्सं परम्मुही होस्सं।
जं भणह तं करिस्सं सहीओं ! जइ तं ण पच्छिस्सं॥ २७३॥
(भ्रुकुट्या प्रलोकयिष्ये निर्भर्त्सयिष्ये पराङ्मुखी भविष्यामि।
यद् भणत तत् करिष्ये सख्यः ! यदि तं न प्रेक्षिष्ये॥)
दृष्टे लोचनवर्त्मना॰॥ २७४॥
जं अणुणअं कुमारीणं सुहअस्स जा दिक् पसाहिअकुलस्स।